Bhishma Parva, Adhyaya 61, Verse 1
भयं मे सुमहज्जातं विस्मयश्चैव संजय
श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम्
Containing 70 sacred Sanskrit shlokas with multi-author commentaries and translations.
भयं मे सुमहज्जातं विस्मयश्चैव संजय
श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम्
पुत्राणां च पराभवं श्रुत्वा संजय सर्वशः
चिन्ता मे महती सूत भविष्यति कथं त्विति
ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम
यथा हि दृश्यते सर्वं दैवयोगेन संजय
यत्र भीष्ममुखाञ्शूरानस्त्रज्ञान्योधसत्तमान्
पाण्डवानामनीकानि योधयन्ति प्रहारिणः
केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः
केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते
येन क्षयं न गच्छन्ति दिवि तारागणा इव
पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः
मय्येव दण्डः पतति दैवात्परमदारुणः
यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः
एतन्मे सर्वमाचक्ष्व यथातत्त्वेन संजय
न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन
समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः
पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम्
घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः
न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे
ध्रुवं विनाशः समरे पुत्राणां मम संजय
तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः
पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि
दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे
भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः
द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः
निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम्
विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय
शृणु राजन्नवहितः श्रुत्वा चैवावधारय
नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम्
न वै विभीषिकां कांचिद्राजन्कुर्वन्ति पाण्डवाः
युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे
धर्मेण सर्वकार्याणि कीर्तितानीति भारत
आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः
न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः
श्रिया परमया युक्ता यतो धर्मस्ततो जयः
तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव
तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा
निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे
सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर
निकृतानीह पाण्डूनां नीचैरिव यथा नरैः
सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम्
सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज
न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते
तस्य पापस्य सततं क्रियमाणस्य कर्मणः
संप्राप्तं सुमहद्घोरं फलं किंपाकसंनिभम्
स तद्भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः
नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः
विदुरेणाथ भीष्मेण द्रोणेन च महात्मना
तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि
वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम्
पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान्
शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि
कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति
तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम
दुर्योधनेन संपृष्ट एतमर्थं पितामहः
दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान्
शोकसंमूढहृदयो निशाकाले स्म कौरवः
पितामहं महाप्राज्ञं विनयेनोपगम्य ह
यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर
त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च
कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः
भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान्
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः
त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः
पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे
तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः
यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे
शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव
बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम्