Bhishma Parva, Adhyaya 59, Verse 1
तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव
भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत्
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव
भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत्
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्
अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान्
तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम्
आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम्
अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम्
तं भीमसेनः समरे महोदधिमिवापरम्
सेनासागरमक्षोभ्यं वेलेव समवारयत्
तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम्
भीमसेनस्य समरे राजन्कर्मातिमानुषम्
उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्
असंभ्रमं भीमसेनो गदया समताडयत्
स संवार्य बलौघांस्तान्गदया रथिनां वरः
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः
तस्मिन्सुतुमुले घोरे काले परमदारुणे
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः
द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः
न प्राजहन्भीमसेनं भये जाते महाबलम्
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः
पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः
व्यचरत्समरे भीमो युगान्ते पावको यथा
विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः
ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः
प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः
मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः
तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः
रणाङ्गणं तदभवन्मृत्योराघातसंनिभम्
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून्
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम्
ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम्
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः
बभौ रूपं महाघोरं कालस्येव युगक्षये
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः
दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन्
यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः
तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत
प्रदारयन्तं सैन्यानि बलौघेनापराजितम्
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम्
तं तथा भीमकर्माणं प्रगृहीतमहागदम्
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात्
महता मेघघोषेण रथेनादित्यवर्चसा
छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान्
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम्
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः
तस्मिन्क्षणे सात्यकिः सत्यसंधः; शिनिप्रवीरोऽभ्यपतत्पितामहम्
निघ्नन्नमित्रान्धनुषा दृढेन; स कम्पयंस्तव पुत्रस्य सेनाम्
तं यान्तमश्वै रजतप्रकाशैः; शरान्धमन्तं धनुषा दृढेन
नाशक्नुवन्वारयितुं तदानीं; सर्वे गणा भारत ये त्वदीयाः
अविध्यदेनं निशितैः शराग्रै;रलम्बुसो राजवरार्श्यशृङ्गिः
तं वै चतुर्भिः प्रतिविध्य वीरो; नप्ता शिनेरभ्यपतद्रथेन
अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम्
प्रावर्तयन्तं कुरुपुंगवांश्च; पुनः पुनश्च प्रणदन्तमाजौ
नाशक्नुवन्वारयितुं वरिष्ठं; मध्यंदिने सूर्यमिवातपन्तम्
न तत्र कश्चिन्नविषण्ण आसी;दृते राजन्सोमदत्तस्य पुत्रात्
स ह्याददानो धनुरुग्रवेगं; भूरिश्रवा भारत सौमदत्तिः
दृष्ट्वा रथान्स्वान्व्यपनीयमाना;न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन्