Mahabharata

Bhishma Parva, Adhyaya 57

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 1

द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष

पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 2

संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः

पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 3

नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे

बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 4

तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम्

दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 5

पीडयानं च तत्सैन्यं पौत्रं तव विशां पते

दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 6

ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत्

प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 7

तस्य लाघवमार्गस्थमादित्यसदृशप्रभम्

व्यदृश्यत महच्चापं समरे युध्यतः परैः

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 8

स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः

ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 9

रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना

शितेनोरगसंकाशां पत्रिणा विजहार ताम्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 10

शल्यस्य च महाघोरानस्यतः शतशः शरान्

निवार्यार्जुनदायादो जघान समरे हयान्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 11

भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः

नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 12

ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः

पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 13

धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि

सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 14

तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ

ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 15

स वारणरथौघानां सहस्रैर्बहुभिर्वृतः

वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 16

धनुर्विस्फार्य संक्रुद्धश्चोदयित्वा वरूथिनीम्

ययौ तन्मद्रकानीकं केकयांश्च परंतपः

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 17

तेन कीर्तिमता गुप्तमनीकं दृढधन्वना

प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 18

सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन

त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 19

ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः

हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 20

दमनं चापि दायादं पौरवस्य महात्मनः

जघान विपुलाग्रेण नाराचेन परंतपः

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 21

ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम्

अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 22

सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्

भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 23

अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत्

अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 24

स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ

पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 25

स संगृह्य महाघोरं निस्त्रिंशवरमायसम्

पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 26

तं महौघमिवायान्तं खात्पतन्तमिवोरगम्

भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम्

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 27

दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम्

अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 28

तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः

शितनिस्त्रिंशहस्तस्य शरावरणधारिणः

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 29

बाणवेगमतीतस्य रथाभ्याशमुपेयुषः

त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः

Mahabharata

Bhishma Parva, Adhyaya 57, Verse 30

तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम्

हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि