Mahabharata

Bhishma Parva, Adhyaya 56

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 1

व्युष्टां निशां भारत भारताना;मनीकिनीनां प्रमुखे महात्मा

ययौ सपत्नान्प्रति जातकोपो; वृतः समग्रेण बलेन भीष्मः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 2

तं द्रोणदुर्योधनबाह्लिकाश्च; तथैव दुर्मर्षणचित्रसेनौ

जयद्रथश्चातिबलो बलौघै;र्नृपास्तथान्येऽनुययुः समन्तात्

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 3

स तैर्महद्भिश्च महारथैश्च; तेजस्विभिर्वीर्यवद्भिश्च राजन्

रराज राजोत्तम राजमुख्यै;र्वृतः स देवैरिव वज्रपाणिः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 4

तस्मिन्ननीकप्रमुखे विषक्ता; दोधूयमानाश्च महापताकाः

सुरक्तपीतासितपाण्डुराभा; महागजस्कन्धगता विरेजुः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 5

सा वाहिनी शांतनवेन राज्ञा; महारथैर्वारणवाजिभिश्च

बभौ सविद्युत्स्तनयित्नुकल्पा; जलागमे द्यौरिव जातमेघा

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 6

ततो रणायाभिमुखी प्रयाता; प्रत्यर्जुनं शांतनवाभिगुप्ता

सेना महोग्रा सहसा कुरूणां; वेगो यथा भीम इवापगायाः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 7

तं व्यालनानाविधगूढसारं; गजाश्वपादातरथौघपक्षम्

व्यूहं महामेघसमं महात्मा; ददर्श दूरात्कपिराजकेतुः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 8

स निर्ययौ केतुमता रथेन; नरर्षभः श्वेतहयेन वीरः

वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्नयूनाम्

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 9

सूपस्करं सोत्तरबन्धुरेषं; यत्तं यदूनामृषभेण संख्ये

कपिध्वजं प्रेक्ष्य विषेदुराजौ; सहैव पुत्रैस्तव कौरवेयाः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 10

प्रकर्षता गुप्तमुदायुधेन; किरीटिना लोकमहारथेन

तं व्यूहराजं ददृशुस्त्वदीया;श्चतुश्चतुर्व्यालसहस्रकीर्णम्

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 11

यथा हि पूर्वेऽहनि धर्मराज्ञा; व्यूहः कृतः कौरवनन्दनेन

तथा तथोद्देशमुपेत्य तस्थुः; पाञ्चालमुख्यैः सह चेदिमुख्याः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 12

ततो महावेगसमाहतानि; भेरीसहस्राणि विनेदुराजौ

शङ्खस्वना दुन्दुभिनिस्वनाश्च; सर्वेष्वनीकेषु ससिंहनादाः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 13

ततः सबाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः

क्षणेन भेरीपणवप्रणादा;नन्तर्दधुः शङ्खमहास्वनाश्च

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 14

तच्छङ्खशब्दावृतमन्तरिक्ष;मुद्धूतभौमद्रुतरेणुजालम्

महावितानावततप्रकाश;मालोक्य वीराः सहसाभिपेतुः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 15

रथी रथेनाभिहतः ससूतः; पपात साश्वः सरथः सकेतुः

गजो गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 16

आवर्तमानान्यभिवर्तमानै;र्बाणैः क्षतान्यद्भुतदर्शनानि

प्रासैश्च खड्गैश्च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 17

सुवर्णतारागणभूषितानि; शरावराणि प्रहितानि वीरैः

विदार्यमाणानि परश्वधैश्च; प्रासैश्च खड्गैश्च निपेतुरुर्व्याम्

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 18

गजैर्विषाणैर्वरहस्तरुग्णाः; केचित्ससूता रथिनः प्रपेतुः

गजर्षभाश्चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम्

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 19

गजौघवेगोद्धतसादितानां; श्रुत्वा निषेदुर्वसुधां मनुष्याः

आर्तस्वरं सादिपदातियूनां; विषाणगात्रावरताडितानाम्

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 20

संभ्रान्तनागाश्वरथे प्रसूते; महाभये सादिपदातियूनाम्

महारथैः संपरिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम्

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 21

तं पञ्चतालोच्छ्रिततालकेतुः; सदश्ववेगोद्धतवीर्ययातः

महास्त्रबाणाशनिदीप्तमार्गं; किरीटिनं शांतनवोऽभ्यधावत्

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 22

तथैव शक्रप्रतिमानकल्प;मिन्द्रात्मजं द्रोणमुखाभिसस्रुः

कृपश्च शल्यश्च विविंशतिश्च; दुर्योधनः सौमदत्तिश्च राजन्

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 23

ततो रथानीकमुखादुपेत्य; सर्वास्त्रवित्काञ्चनचित्रवर्मा

जवेन शूरोऽभिससार सर्वां;स्तथार्जुनस्यात्र सुतोऽभिमन्युः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 24

तेषां महास्त्राणि महारथाना;मसक्तकर्मा विनिहत्य कार्ष्णिः

बभौ महामन्त्रहुतार्चिमाली; सदोगतः सन्भगवानिवाग्निः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 25

ततः स तूर्णं रुधिरोदफेनां; कृत्वा नदीं वैशसने रिपूणाम्

जगाम सौभद्रमतीत्य भीष्मो; महारथं पार्थमदीनसत्त्वः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 26

ततः प्रहस्याद्भुतदर्शनेन; गाण्डीवनिर्ह्रादमहास्वनेन

विपाठजालेन महास्त्रजालं; विनाशयामास किरीटमाली

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 27

तमुत्तमं सर्वधनुर्धराणा;मसक्तकर्मा कपिराजकेतुः

भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर्विमलैश्च भल्लैः

Mahabharata

Bhishma Parva, Adhyaya 56, Verse 28

एवंविधं कार्मुकभीमनाद;मदीनवत्सत्पुरुषोत्तमाभ्याम्

ददर्श लोकः कुरुसृञ्जयाश्च; तद्द्वैरथं भीष्मधनंजयाभ्याम्