Mahabharata

Bhishma Parva, Adhyaya 53

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 1

ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च

धनंजयो रथानीकमवधीत्तव भारत

शरैरतिरथो युद्धे पातयन्रथयूथपान्

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 2

ते वध्यमानाः पार्थेन कालेनेव युगक्षये

धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन्

प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम्

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 3

एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम्

बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 4

द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च

पाण्डवैः कौरवैश्चैव न प्रज्ञायत किंचन

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 5

उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्

दिशः प्रतिदिशो वापि तत्र जज्ञुः कथंचन

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 6

अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे

वर्तते स्म तदा युद्धं तत्र तत्र विशां पते

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 7

न व्यूहो भिद्यते तत्र कौरवाणां कथंचन

रक्षितः सत्यसंधेन भारद्वाजेन धीमता

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 8

तथैव पाण्डवेयानां रक्षितः सव्यसाचिना

नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 9

सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः

उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 10

हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे

ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 11

रथी रथिनमासाद्य शरैः कनकभूषणैः

पातयामास समरे तस्मिन्नतिभयंकरे

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 12

गजारोहा गजारोहान्नाराचशरतोमरैः

संसक्ताः पातयामासुस्तव तेषां च संघशः

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 13

पत्तिसंघा रणे पत्तीन्भिण्डिपालपरश्वधैः

न्यपातयन्त संहृष्टाः परस्परकृतागसः

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 14

पदाती रथिनं संख्ये रथी चापि पदातिनम्

न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 15

गजारोहा हयारोहान्पातयां चक्रिरे तदा

हयारोहा गजस्थांश्च तदद्भुतमिवाभवत्

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 16

गजारोहवरैश्चापि तत्र तत्र पदातयः

पातिताः समदृश्यन्त तैश्चापि गजयोधिनः

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 17

पत्तिसंघा हयारोहैः सादिसंघाश्च पत्तिभिः

पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 18

ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा

प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 19

शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि

निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 20

परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः

भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 21

नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे

अगम्यरूपा पृथिवी मांसशोणितकर्दमा

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 22

प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः

दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 23

उत्थितान्यगणेयानि कबन्धानि समन्ततः

चिह्नभूतानि जगतो विनाशार्थाय भारत

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 24

तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे

प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 25

ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः

पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 26

एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः

पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 27

तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः

सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 28

तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः

द्रावयामासुराजौ ते त्रिदशा दानवानिव

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 29

तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः

रक्तोक्षिता घोररूपा विरेजुर्दानवा इव

Mahabharata

Bhishma Parva, Adhyaya 53, Verse 30

विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि

व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले