Bhishma Parva, Adhyaya 51, Verse 1
गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत
रथनागाश्वपत्तीनां सादिनां च महाक्षये
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत
रथनागाश्वपत्तीनां सादिनां च महाक्षये
द्रोणपुत्रेण शल्येन कृपेण च महात्मना
समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः
स लोकविदितानश्वान्निजघान महाबलः
द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः
ततः शल्यरथं तूर्णमास्थाय हतवाहनः
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः
धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान्
स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा
शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः
लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम्
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत
दौर्योधनिस्तु संक्रुद्धः सौभद्रं नवभिः शरैः
विव्याध समरे राजंस्तदद्भुतमिवाभवत्
अभिमन्युस्तु संक्रुद्धो भ्रातरं भरतर्षभ
शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत
लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा
मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः
तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम्
तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ
अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ
ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम्
पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः
संनिवृत्ते तव सुते सर्व एव जनाधिपाः
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन्
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः
न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः
सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनंजयः
अभिदुद्राव संक्रुद्धस्त्रातुकामः स्वमात्मजम्
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम्
उद्धूतं सहसा भौमं नागाश्वरथसादिभिः
दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत
तानि नागसहस्राणि भूमिपालशतानि च
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः
कुरूणामनयस्तीव्रः समदृश्यत दारुणः
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः
प्रजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः
सादितध्वजनागास्तु हताश्वा रथिनो भृशम्
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः
विरथा रथिनश्चान्ये धावमानाः समन्ततः
तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः
अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः
सगदानुद्यतान्बाहून्सखड्गांश्च विशां पते
सप्रासांश्च सतूणीरान्सशरान्सशरासनान्
साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम्
निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा
परिघाणां प्रवृद्धानां मुद्गराणां च मारिष
प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे
परश्वधानां तीक्ष्णानां तोमराणां च भारत
वर्मणां चापविद्धानां कवचानां च भूतले