Mahabharata

Bhishma Parva, Adhyaya 50

Containing 115 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 1

तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः

कथमद्भुतकर्माणं भीमसेनं महाबलम्

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 2

चरन्तं गदया वीरं दण्डपाणिमिवान्तकम्

योधयामास समरे कलिङ्गः सह सेनया

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 3

पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः

महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 4

तामापतन्तीं सहसा कलिङ्गानां महाचमूम्

रथनागाश्वकलिलां प्रगृहीतमहायुधाम्

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 5

भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम्

केतुमन्तं च नैषादिमायान्तं सह चेदिभिः

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 6

ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह

आससाद रणे भीमं व्यूढानीकेषु चेदिषु

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 7

रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः

अयुतेन गजानां च निषादैः सह केतुमान्

भीमसेनं रणे राजन्समन्तात्पर्यवारयत्

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 8

चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः

अभ्यवर्तन्त सहसा निषादान्सह राजभिः

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 9

ततः प्रववृते युद्धं घोररूपं भयानकम्

प्रजानन्न च योधान्स्वान्परस्परजिघांसया

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 10

घोरमासीत्ततो युद्धं भीमस्य सहसा परैः

यथेन्द्रस्य महाराज महत्या दैत्यसेनया

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 11

तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत

बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 12

अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते

महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम्

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 13

योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया

स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 14

विमर्दः सुमहानासीदल्पानां बहुभिः सह

कलिङ्गैः सह चेदीनां निषादैश्च विशां पते

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 15

कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः

भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 16

सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु

स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 17

न चचाल रथोपस्थाद्भीमसेनो महाबलः

शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम्

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 18

कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः

शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 19

ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः

योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 20

शक्रदेवस्तु समरे विसृजन्सायकान्बहून्

अश्वाञ्जघान समरे भीमसेनस्य सायकैः

ववर्ष शरवर्षाणि तपान्ते जलदो यथा

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 21

हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः

शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 22

स तया निहतो राजन्कलिङ्गस्य सुतो रथात्

सध्वजः सह सूतेन जगाम धरणीतलम्

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 23

हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः

रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 24

ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम्

उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम्

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 25

चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ

नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम्

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 26

कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह

प्रगृह्य च शरं घोरमेकं सर्पविषोपमम्

प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 27

तमापतन्तं वेगेन प्रेरितं निशितं शरम्

भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना

उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम्

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 28

कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे

तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 29

तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः

चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना

Mahabharata

Bhishma Parva, Adhyaya 50, Verse 30

निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश

भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः