Mahabharata

Bhishma Parva, Adhyaya 49

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 1

कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः

रणे समीयतुर्यत्तौ तन्ममाचक्ष्व संजय

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 2

दिष्टमेव परं मन्ये पौरुषादपि संजय

यत्र शांतनवो भीष्मो नातरद्युधि पाण्डवम्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 3

भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान्

स कथं पाण्डवं युद्धे नातरत्संजयौजसा

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 4

शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम्

न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 5

द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत्

सारथिं चास्य भल्लेन रथनीडादपातयत्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 6

तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः

पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 7

धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः

विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 8

ततः पुनरमेयात्मा भारद्वाजः प्रतापवान्

शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 9

आददे च शरं घोरं पार्षतस्य वधं प्रति

शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 10

हाहाकारो महानासीत्सर्वसैन्यस्य भारत

तमिषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 11

तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम्

यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 12

तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः

चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 13

तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह

धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 14

ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम्

द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 15

तामापतन्तीं सहसा शक्तिं कनकभूषणाम्

त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 16

शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान्

ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 17

शरवर्षं ततस्तं तु संनिवार्य महायशाः

द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 18

स च्छिन्नधन्वा समरे गदां गुर्वीं महायशाः

द्रोणाय प्रेषयामास गिरिसारमयीं बली

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 19

सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया

तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 20

लाघवाद्व्यंसयामास गदां हेमविभूषिताम्

व्यंसयित्वा गदां तां च प्रेषयामास पार्षते

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 21

भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान्

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 22

अथान्यद्धनुरादाय धृष्टद्युम्नो महामनाः

द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 23

रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ

वसन्तसमये राजन्पुष्पिताविव किंशुकौ

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 24

अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे

द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 25

अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः

अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 26

सारथिं चास्य भल्लेन रथनीडादपातयत्

अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 27

पातयामास समरे सिंहनादं ननाद च

ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 28

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः

गदापाणिरवारोहत्ख्यापयन्पौरुषं महत्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 29

तामस्य विशिखैस्तूर्णं पातयामास भारत

रथादनवरूढस्य तदद्भुतमिवाभवत्

Mahabharata

Bhishma Parva, Adhyaya 49, Verse 30

ततः स विपुलं चर्म शतचन्द्रं च भानुमत्

खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली