Bhishma Parva, Adhyaya 48, Verse 1
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च
कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे
Containing 70 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च
कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे
समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः
अपारमिव संदृश्य सागरप्रतिमं बलम्
तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव
अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः
ते मनः क्रूरमास्थाय समभित्यक्तजीविताः
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः
ततो युद्धं समभवत्तुमुलं लोमहर्षणम्
तावकानां परेषां च व्यतिषक्तरथद्विपम्
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः
संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च
तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः
अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः
सौभद्रे भीमसेने च शैनेये च महारथे
केकये च विराटे च धृष्टद्युम्ने च पार्षते
एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः
प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान्
सादितध्वजनागाश्च हतप्रवरवाजिनः
विप्रयातरथानीकाः समपद्यन्त पाण्डवाः
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम्
वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः
एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम्
नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना
सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन
तमब्रवीद्वासुदेवो यत्तो भव धनंजय
एष त्वा प्रापये वीर पितामहरथं प्रति
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम्
प्रापयामास भीष्माय रथं प्रति जनेश्वर
चञ्चद्बहुपताकेन बलाकावर्णवाजिना
समुच्छ्रितमहाभीमनदद्वानरकेतुना
महता मेघनादेन रथेनादित्यवर्चसा
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः
आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोषविनाशनः
तमापतन्तं वेगेन प्रभिन्नमिव वारणम्
त्रासयानं रणे शूरान्पातयन्तं च सायकैः
सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः
सहसा प्रत्युदीयाय भीष्मः शांतनवोऽर्जुनम्
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात्
द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति
ततो भीष्मो महाराज कौरवाणां पितामहः
अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत्
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः
दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः
सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः
विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम्
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः
न विव्यथे महाबाहुर्भिद्यमान इवाचलः
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः
द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः
आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः
प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः
द्रौपदेयाभिमन्युश्च परिवव्रुर्धनंजयम्
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम्
अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः