Mahabharata

Bhishma Parva, Adhyaya 47

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 1

क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव

व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 2

आचार्यमुपसंगम्य कृपं शल्यं च मारिष

सौमदत्तिं विकर्णं च अश्वत्थामानमेव च

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 3

दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत

अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान्

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 4

प्राहेदं वचनं काले हर्षयंस्तनयस्तव

नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 5

एकैकशः समर्था हि यूयं सर्वे महारथाः

पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 6

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्

पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 7

संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा

आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 8

शत्रुंजयेन सहितास्तथा दुःशासनेन च

विकर्णेन च वीरेण तथा नन्दोपनन्दकैः

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 9

चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः

भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 10

ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष

अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 11

भीष्मः सैन्येन महता समन्तात्परिवारितः

ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 12

तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान्

कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 13

विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि

सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम्

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 14

गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः

शकुनिश्च स्वसैन्येन भारद्वाजमपालयत्

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 15

ततो दुर्योधनो राजा सहितः सर्वसोदरैः

अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 16

दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः

अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम्

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 17

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष

विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन्

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 18

सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः

शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 19

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः

महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 20

पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः

केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 21

ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत

दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन्

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 22

तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः

सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 23

ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः

आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 24

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ

प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 25

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 26

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 27

काशिराजश्च शैब्यश्च शिखण्डी च महारथः

धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 28

पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः

सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 29

स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत्

Mahabharata

Bhishma Parva, Adhyaya 47, Verse 30

एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः

पुनर्युद्धाय संजग्मुस्तापयानाः परस्परम्