Bhishma Parva, Adhyaya 43, Verse 1
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम्
Containing 83 sacred Sanskrit shlokas with multi-author commentaries and translations.
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम्
कुरूणां पाण्डवानां च संग्रामे विजिगीषताम्
सिंहानामिव संह्रादो दिवमुर्वीं च नादयन्
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह
जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम्
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ
पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः
तोत्त्राङ्कुशनिपाताश्च आयुधानां च निस्वनाः
घण्टाशब्दाश्च नागानामन्योन्यमभिधावताम्
तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे
बभूव रथनिर्घोषः पर्जन्यनिनदोपमः
ते मनः क्रूरमाधाय समभित्यक्तजीविताः
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः
स्वयं शांतनवो राजन्नभ्यधावद्धनंजयम्
प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम्
अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ
गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली
तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि
सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात्
तयोः समभवद्युद्धं तुमुलं लोमहर्षणम्
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम्
आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम्
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ
वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ
अभिमन्युर्महेष्वासो बृहद्बलमयोधयत्
ततः कोसलको राजा सौभद्रस्य विशां पते
ध्वजं चिच्छेद समरे सारथिं च न्यपातयत्
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ
बृहद्बलं महाराज विव्याध नवभिः शरैः
अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः
ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम्
अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः
मानिनं समरे दृप्तं कृतवैरं महारथम्
भीमसेनस्तव सुतं दुर्योधनमयोधयत्
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ
अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे
तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ
विस्मयः सर्वभूतानां समपद्यत भारत
दुःशासनस्तु नकुलं प्रत्युद्याय महारथम्
अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः
तस्य माद्रीसुतः केतुं सशरं च शरासनम्
चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत्
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे
युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत्
दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम्
विव्याध शरवर्षेण यतमानं महाहवे
सहदेवस्ततो वीरो दुर्मुखस्य महाहवे
शरेण भृशतीक्ष्णेन पातयामास सारथिम्
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ
त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ
युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात्
तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः
अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम्
ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः
छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत
तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम्
त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम्
शरं चैव महाघोरं कालदण्डमिवापरम्
प्रेषयामास समरे सोऽस्य काये न्यमज्जत