Bhishma Parva, Adhyaya 42, Verse 1
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च
के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च
के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा
भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः
भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः
भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः
उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन्
वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत्
महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः
चकम्पिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना
नरेन्द्रनागाश्वरथाकुलाना;मभ्यायतीनामशिवे मुहूर्ते
बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम्
तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम्
सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत्
हयानां हेषमाणानामनीकेषु सहस्रशः
सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः
जीमूतस्येव नदतः शक्राशनिसमस्वनम्
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः
शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः
दर्शयन्घोरमात्मानं महाभ्रमिव नादयन्
विभीषयंस्तव सुतांस्तव सेनां समभ्ययात्
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन्
छादयन्तः शरव्रातैर्मेघा इव दिवाकरम्
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप
विविंशतिश्चित्रसेनो विकर्णश्च महारथः
पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान्
महाचापानि धुन्वन्तो जलदा इव विद्युतः
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान्
अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः
वज्रैरिव महावेगैः शिखराणि धराभृताम्
तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ
निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम्
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा
विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात्
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत
ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम्
ततस्ते जातसंरम्भाः परस्परकृतागसः
अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः
कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले
शुशुभाते रणेऽतीव पटे चित्रगते इव
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः
सहसैन्याः समापेतुः पुत्रस्य तव शासनात्
युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम्
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः
प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि
नात्र स्वेषां परेषां वा विशेषः समजायत
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये
अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत