Mahabharata

Bhishma Parva, Adhyaya 41

Containing 104 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 1

ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम्

पुनरेव महानादं व्यसृजन्त महारथाः

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 2

पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः

दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान्

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 3

ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः

सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत्

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 4

अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर

सिद्धचारणसंघाश्च समीयुस्ते दिदृक्षया

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 5

ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम्

समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत्

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 6

ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते

ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 7

विमुच्य कवचं वीरो निक्षिप्य च वरायुधम्

अवरुह्य रथात्तूर्णं पद्भ्यामेव कृताञ्जलिः

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 8

पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः

वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम्

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 9

तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनंजयः

अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात्

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 10

वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह

यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 11

किं ते व्यवसितं राजन्यदस्मानपहाय वै

पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम्

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 12

क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः

दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 13

एवंगते त्वयि ज्येष्ठे मम भ्रातरि भारत

भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 14

अस्मिन्रणसमूहे वै वर्तमाने महाभये

योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 15

एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन

नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 16

तानुवाच महाप्राज्ञो वासुदेवो महामनाः

अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 17

एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च

अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 18

श्रूयते हि पुराकल्पे गुरूनननुमान्य यः

युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 19

अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः

ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 20

एवं ब्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति

हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन्

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 21

दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः

मिथः संकथयां चक्रुर्नेशोऽस्ति कुलपांसनः

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 22

व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात्

युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 23

धनंजये कथं नाथे पाण्डवे च वृकोदरे

नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 24

न नूनं क्षत्रियकुले जातः संप्रथिते भुवि

यथास्य हृदयं भीतमल्पसत्त्वस्य संयुगे

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 25

ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान्

हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक्

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 26

व्यनिन्दन्त ततः सर्वे योधास्तत्र विशां पते

युधिष्ठिरं ससोदर्यं सहितं केशवेन ह

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 27

ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम्

निःशब्दमभवत्तूर्णं पुनरेव विशां पते

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 28

किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति

किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 29

विवक्षितं किमस्येति संशयः सुमहानभूत्

उभयोः सेनयो राजन्युधिष्ठिरकृते तदा

Mahabharata

Bhishma Parva, Adhyaya 41, Verse 30

स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम्

भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः