Mahabharata

Bhishma Parva, Adhyaya 40

Containing 78 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 1

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्

त्यागस्य च हृषीकेश पृथक्केशिनिषूदन

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 2

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 3

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः

यज्ञदानतपःकर्म न त्याज्यमिति चापरे

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 4

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम

त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 5

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 6

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च

कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 7

नियतस्य तु संन्यासः कर्मणो नोपपद्यते

मोहात्तस्य परित्यागस्तामसः परिकीर्तितः

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 8

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 9

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 10

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते

त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 11

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः

यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 12

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्

भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 13

पञ्चैतानि महाबाहो कारणानि निबोध मे

सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 14

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 15

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः

न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 16

तत्रैवं सति कर्तारमात्मानं केवलं तु यः

पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 17

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते

हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 18

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना

करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 19

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः

प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 20

सर्वभूतेषु येनैकं भावमव्ययमीक्षते

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 21

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्

वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 22

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्

अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 23

नियतं सङ्गरहितमरागद्वेषतः कृतम्

अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 24

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः

क्रियते बहुलायासं तद्राजसमुदाहृतम्

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 25

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्

मोहादारभ्यते कर्म यत्तत्तामसमुच्यते

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 26

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः

सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 27

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः

हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 28

अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः

विषादी दीर्घसूत्री च कर्ता तामस उच्यते

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 29

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु

प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय

Mahabharata

Bhishma Parva, Adhyaya 40, Verse 30

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये

बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी