Mahabharata

Bhishma Parva, Adhyaya 37

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 1

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्

छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 2

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः

अधश्च मूलान्यनुसंततानि; कर्मानुबन्धीनि मनुष्यलोके

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 3

न रूपमस्येह तथोपलभ्यते; नान्तो न चादिर्न च संप्रतिष्ठा

अश्वत्थमेनं सुविरूढमूल;मसङ्गशस्त्रेण दृढेन छित्त्वा

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 4

ततः पदं तत्परिमार्गितव्यं; यस्मिन्गता न निवर्तन्ति भूयः

तमेव चाद्यं पुरुषं प्रपद्ये; यतः प्रवृत्तिः प्रसृता पुराणी

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 5

निर्मानमोहा जितसङ्गदोषा; अध्यात्मनित्या विनिवृत्तकामाः

द्वंद्वैर्विमुक्ताः सुखदुःखसंज्ञै;र्गच्छन्त्यमूढाः पदमव्ययं तत्

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 6

न तद्भासयते सूर्यो न शशाङ्को न पावकः

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 7

ममैवांशो जीवलोके जीवभूतः सनातनः

मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 8

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः

गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 9

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च

अधिष्ठाय मनश्चायं विषयानुपसेवते

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 10

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 11

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्

यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 12

यदादित्यगतं तेजो जगद्भासयतेऽखिलम्

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 13

गामाविश्य च भूतानि धारयाम्यहमोजसा

पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 14

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 15

सर्वस्य चाहं हृदि संनिविष्टो; मत्तः स्मृतिर्ज्ञानमपोहनं च

वेदैश्च सर्वैरहमेव वेद्यो; वेदान्तकृद्वेदविदेव चाहम्

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 16

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 17

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 18

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 19

यो मामेवमसंमूढो जानाति पुरुषोत्तमम्

स सर्वविद्भजति मां सर्वभावेन भारत

Mahabharata

Bhishma Parva, Adhyaya 37, Verse 20

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ

एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत