Mahabharata

Bhishma Parva, Adhyaya 32

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 1

भूय एव महाबाहो शृणु मे परमं वचः

यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 2

न मे विदुः सुरगणाः प्रभवं न महर्षयः

अहमादिर्हि देवानां महर्षीणां च सर्वशः

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 3

यो मामजमनादिं च वेत्ति लोकमहेश्वरम्

असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 4

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः

सुखं दुःखं भवोऽभावो भयं चाभयमेव च

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 5

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः

भवन्ति भावा भूतानां मत्त एव पृथग्विधाः

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 6

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा

मद्भावा मानसा जाता येषां लोक इमाः प्रजाः

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 7

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः

सोऽविकम्पेन योगेन युज्यते नात्र संशयः

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 8

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते

इति मत्वा भजन्ते मां बुधा भावसमन्विताः

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 9

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्

कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 10

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्

ददामि बुद्धियोगं तं येन मामुपयान्ति ते

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 11

तेषामेवानुकम्पार्थमहमज्ञानजं तमः

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 12

परं ब्रह्म परं धाम पवित्रं परमं भवान्

पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 13

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा

असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 14

सर्वमेतदृतं मन्ये यन्मां वदसि केशव

न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 15

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम

भूतभावन भूतेश देवदेव जगत्पते

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 16

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः

याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 17

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्

केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 18

विस्तरेणात्मनो योगं विभूतिं च जनार्दन

भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 19

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः

प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 20

अहमात्मा गुडाकेश सर्वभूताशयस्थितः

अहमादिश्च मध्यं च भूतानामन्त एव च

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 21

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्

मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 22

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः

इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 23

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम्

वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 24

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्

सेनानीनामहं स्कन्दः सरसामस्मि सागरः

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 25

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्

यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 26

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 27

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्

ऐरावतं गजेन्द्राणां नराणां च नराधिपम्

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 28

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्

प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 29

अनन्तश्चास्मि नागानां वरुणो यादसामहम्

पितॄणामर्यमा चास्मि यमः संयमतामहम्

Mahabharata

Bhishma Parva, Adhyaya 32, Verse 30

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्

मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्