Mahabharata

Bhishma Parva, Adhyaya 31

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 1

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 2

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 3

अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 4

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 5

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्

भूतभृन्न च भूतस्थो ममात्मा भूतभावनः

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 6

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्

तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 7

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्

कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 8

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः

भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 9

न च मां तानि कर्माणि निबध्नन्ति धनंजय

उदासीनवदासीनमसक्तं तेषु कर्मसु

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 10

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्

हेतुनानेन कौन्तेय जगद्विपरिवर्तते

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 11

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्

परं भावमजानन्तो मम भूतमहेश्वरम्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 12

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः

राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 13

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः

भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 14

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः

नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 15

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते

एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 16

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्

मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 17

पिताहमस्य जगतो माता धाता पितामहः

वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 18

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्

प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 19

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च

अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 20

त्रैविद्या मां सोमपाः पूतपापा; यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते

ते पुण्यमासाद्य सुरेन्द्रलोक;मश्नन्ति दिव्यान्दिवि देवभोगान्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 21

ते तं भुक्त्वा स्वर्गलोकं विशालं; क्षीणे पुण्ये मर्त्यलोकं विशन्ति

एवं त्रयीधर्ममनुप्रपन्ना; गतागतं कामकामा लभन्ते

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 22

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 23

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः

तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 24

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 25

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 26

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 27

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 28

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः

संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 29

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्

Mahabharata

Bhishma Parva, Adhyaya 31, Verse 30

अपि चेत्सुदुराचारो भजते मामनन्यभाक्

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः