Mahabharata

Bhishma Parva, Adhyaya 29

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 1

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 2

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 3

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये

यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 4

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च

अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 5

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्

जीवभूतां महाबाहो ययेदं धार्यते जगत्

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 6

एतद्योनीनि भूतानि सर्वाणीत्युपधारय

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 7

मत्तः परतरं नान्यत्किंचिदस्ति धनंजय

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 8

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 9

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 10

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्

बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 11

बलं बलवतां चाहं कामरागविवर्जितम्

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 12

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये

मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 13

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्

मोहितं नाभिजानाति मामेभ्यः परमव्ययम्

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 14

दैवी ह्येषा गुणमयी मम माया दुरत्यया

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 15

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः

माययापहृतज्ञाना आसुरं भावमाश्रिताः

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 16

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन

आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 17

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 18

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्

आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 19

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 20

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः

तं तं नियममास्थाय प्रकृत्या नियताः स्वया

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 21

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 22

स तया श्रद्धया युक्तस्तस्या राधनमीहते

लभते च ततः कामान्मयैव विहितान्हि तान्

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 23

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्

देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 24

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः

परं भावमजानन्तो ममाव्ययमनुत्तमम्

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 25

नाहं प्रकाशः सर्वस्य योगमायासमावृतः

मूढोऽयं नाभिजानाति लोको मामजमव्ययम्

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 26

वेदाहं समतीतानि वर्तमानानि चार्जुन

भविष्याणि च भूतानि मां तु वेद न कश्चन

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 27

इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत

सर्वभूतानि संमोहं सर्गे यान्ति परंतप

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 28

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्

ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 29

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये

ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्

Mahabharata

Bhishma Parva, Adhyaya 29, Verse 30

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः

प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः