Mahabharata

Bhishma Parva, Adhyaya 27

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 1

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 2

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ

तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 3

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति

निर्द्वंद्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 4

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः

एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 5

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते

एकं सांख्यं च योगं च यः पश्यति स पश्यति

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 6

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः

योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 7

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः

सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 8

नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्

पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 9

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 10

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 11

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 12

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्

अयुक्तः कामकारेण फले सक्तो निबध्यते

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 13

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी

नवद्वारे पुरे देही नैव कुर्वन्न कारयन्

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 14

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 15

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 16

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः

तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 17

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः

गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 18

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 19

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः

निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 20

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्

स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 21

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्

स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 22

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते

आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 23

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात्

कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 24

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः

स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 25

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः

छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 26

कामक्रोधवियुक्तानां यतीनां यतचेतसाम्

अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 27

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 28

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः

विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः

Mahabharata

Bhishma Parva, Adhyaya 27, Verse 29

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति