Mahabharata

Bhishma Parva, Adhyaya 25

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 1

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन

तत्किं कर्मणि घोरे मां नियोजयसि केशव

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 2

व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 3

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ

ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 4

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते

न च संन्यसनादेव सिद्धिं समधिगच्छति

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 5

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 6

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्

इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 7

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन

कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 8

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः

शरीरयात्रापि च ते न प्रसिध्येदकर्मणः

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 9

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः

तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 10

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 11

देवान्भावयतानेन ते देवा भावयन्तु वः

परस्परं भावयन्तः श्रेयः परमवाप्स्यथ

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 12

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः

तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 13

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः

भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 14

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः

यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 15

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्

तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 16

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः

अघायुरिन्द्रियारामो मोघं पार्थ स जीवति

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 17

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः

आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 18

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन

न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 19

तस्मादसक्तः सततं कार्यं कर्म समाचर

असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 20

कर्मणैव हि संसिद्धिमास्थिता जनकादयः

लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 21

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 22

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 23

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 24

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्

संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 25

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत

कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 26

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्

जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 27

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः

अहंकारविमूढात्मा कर्ताहमिति मन्यते

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 28

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः

गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 29

प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु

तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्

Mahabharata

Bhishma Parva, Adhyaya 25, Verse 30

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः