Mahabharata

Bhishma Parva, Adhyaya 24

Containing 72 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 1

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्

विषीदन्तमिदं वाक्यमुवाच मधुसूदनः

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 2

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्

अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 3

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 4

कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 5

गुरूनहत्वा हि महानुभावा;ञ्श्रेयो भोक्तुं भैक्षमपीह लोके

हत्वार्थकामांस्तु गुरूनिहैव; भुञ्जीय भोगान्रुधिरप्रदिग्धान्

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 6

न चैतद्विद्मः कतरन्नो गरीयो; यद्वा जयेम यदि वा नो जयेयुः

यानेव हत्वा न जिजीविषाम;स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 7

कार्पण्यदोषोपहतस्वभावः; पृच्छामि त्वां धर्मसंमूढचेताः

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे; शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 8

न हि प्रपश्यामि ममापनुद्या;द्यच्छोकमुच्छोषणमिन्द्रियाणाम्

अवाप्य भूमावसपत्नमृद्धं; राज्यं सुराणामपि चाधिपत्यम्

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 9

एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 10

तमुवाच हृषीकेशः प्रहसन्निव भारत

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 11

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 12

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः

न चैव न भविष्यामः सर्वे वयमतः परम्

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 13

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 14

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 15

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 16

नासतो विद्यते भावो नाभावो विद्यते सतः

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 17

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्

विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 18

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः

अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 19

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्

उभौ तौ न विजानीतो नायं हन्ति न हन्यते

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 20

न जायते म्रियते वा कदाचि;न्नायं भूत्वा भविता वा न भूयः

अजो नित्यः शाश्वतोऽयं पुराणो; न हन्यते हन्यमाने शरीरे

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 21

वेदाविनाशिनं नित्यं य एनमजमव्ययम्

कथं स पुरुषः पार्थ कं घातयति हन्ति कम्

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 22

वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरोऽपराणि

तथा शरीराणि विहाय जीर्णा;न्यन्यानि संयाति नवानि देही

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 23

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 24

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 25

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 26

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्

तथापि त्वं महाबाहो नैनं शोचितुमर्हसि

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 27

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 28

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत

अव्यक्तनिधनान्येव तत्र का परिदेवना

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 29

आश्चर्यवत्पश्यति कश्चिदेन;माश्चर्यवद्वदति तथैव चान्यः

आश्चर्यवच्चैनमन्यः शृणोति; श्रुत्वाप्येनं वेद न चैव कश्चित्

Mahabharata

Bhishma Parva, Adhyaya 24, Verse 30

देही नित्यमवध्योऽयं देहे सर्वस्य भारत

तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि