Bhishma Parva, Adhyaya 22, Verse 1
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत्
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत्
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः
स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना
धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम्
अनीकं दक्षिणं राजन्युयुधानेन पालितम्
श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता
महेन्द्रयानप्रतिमं रथं तु; सोपस्करं हाटकरत्नचित्रम्
युधिष्ठिरः काञ्चनभाण्डयोक्त्रं; समास्थितो नागकुलस्य मध्ये
समुच्छ्रितं दान्तशलाकमस्य; सुपाण्डुरं छत्रमतीव भाति
प्रदक्षिणं चैनमुपाचरन्ति; महर्षयः संस्तुतिभिर्नरेन्द्रम्
पुरोहिताः शत्रुवधं वदन्तो; महर्षिवृद्धाः श्रुतवन्त एव
जप्यैश्च मन्त्रैश्च तथौषधीभिः; समन्ततः स्वस्त्ययनं प्रचक्रुः
ततः स वस्त्राणि तथैव गाश्च; फलानि पुष्पाणि तथैव निष्कान्
कुरूत्तमो ब्राह्मणसान्महात्मा; कुर्वन्ययौ शक्र इवामरेभ्यः
सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्यजाम्बूनदहेमचित्रः
रथोऽर्जुनस्याग्निरिवार्चिमाली; विभ्राजते श्वेतहयः सुचक्रः
तमास्थितः केशवसंगृहीतं; कपिध्वजं गाण्डिवबाणहस्तः
धनुर्धरो यस्य समः पृथिव्यां; न विद्यते नो भविता वा कदाचित्
उद्वर्तयिष्यंस्तव पुत्रसेना;मतीव रौद्रं स बिभर्ति रूपम्
अनायुधो यः सुभुजो भुजाभ्यां; नराश्वनागान्युधि भस्म कुर्यात्
स भीमसेनः सहितो यमाभ्यां; वृकोदरो वीररथस्य गोप्ता
तं प्रेक्ष्य मत्तर्षभसिंहखेलं; लोके महेन्द्रप्रतिमानकल्पम्
समीक्ष्य सेनाग्रगतं दुरासदं; प्रविव्यथुः पङ्कगता इवोष्ट्राः
वृकोदरं वारणराजदर्पं; योधास्त्वदीया भयविग्नसत्त्वाः
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम्
अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः
य एष गोप्ता प्रतपन्बलस्थो; यो नः सेनां सिंह इवेक्षते च
स एष भीष्मः कुरुवंशकेतु;र्येनाहृतास्त्रिंशतो वाजिमेधाः
एतान्यनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम्
एतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति संजय
उदग्रमनसः केऽत्र के वा दीना विचेतसः
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने
मामकाः पाण्डवानां वा तन्ममाचक्ष्व संजय
कस्य सेनासमुदये गन्धमाल्यसमुद्भवः
वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम्
उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा
स्रग्धूपपानगन्धानामुभयत्र समुद्भवः
संहतानामनीकानां व्यूढानां भरतर्षभ
संसर्पतामुदीर्णानां विमर्दः सुमहानभूत्
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः
कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम्