Mahabharata

Bhishma Parva, Adhyaya 21

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 1

बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम्

विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 2

व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः

अभेद्यमिव संप्रेक्ष्य विषण्णोऽर्जुनमब्रवीत्

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 3

धनंजय कथं शक्यमस्माभिर्योद्धुमाहवे

धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 4

अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना

कल्पितः शास्त्रदृष्टेन विधिना भूरितेजसा

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 5

ते वयं संशयं प्राप्ताः ससैन्याः शत्रुकर्शन

कथमस्मान्महाव्यूहादुद्यानं नो भविष्यति

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 6

अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा

विषण्णमभिसंप्रेक्ष्य तव राजन्ननीकिनीम्

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 7

प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि

जयन्त्यल्पतरा येन तन्निबोध विशां पते

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 8

तत्तु ते कारणं राजन्प्रवक्ष्याम्यनसूयवे

नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 9

एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत्

पितामहः किल पुरा महेन्द्रादीन्दिवौकसः

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 10

न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः

यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 11

त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः

युध्यध्वमनहंकारा यतो धर्मस्ततो जयः

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 12

एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः

यथा मे नारदः प्राह यतः कृष्णस्ततो जयः

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 13

गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम्

अन्यथा विजयश्चास्य संनतिश्चापरो गुणः

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 14

अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः

पुरुषः सनातनतमो यतः कृष्णस्ततो जयः

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 15

पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठसायकः

सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 16

अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम्

तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः

Mahabharata

Bhishma Parva, Adhyaya 21, Verse 17

तस्य ते न व्यथां कांचिदिह पश्यामि भारत

यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः