Bhishma Parva, Adhyaya 20, Verse 1
सूर्योदये संजय के नु पूर्वं; युयुत्सवो हृष्यमाणा इवासन्
मामका वा भीष्मनेत्राः समीके; पाण्डवा वा भीमनेत्रास्तदानीम्
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
सूर्योदये संजय के नु पूर्वं; युयुत्सवो हृष्यमाणा इवासन्
मामका वा भीष्मनेत्राः समीके; पाण्डवा वा भीमनेत्रास्तदानीम्
केषां जघन्यौ सोमसूर्यौ सवायू; केषां सेनां श्वापदा व्याभषन्त
केषां यूनां मुखवर्णाः प्रसन्नाः; सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत्
उभे सेने तुल्यमिवोपयाते; उभे व्यूहे हृष्टरूपे नरेन्द्र
उभे चित्रे वनराजिप्रकाशे; तथैवोभे नागरथाश्वपूर्णे
उभे सेने बृहती भीमरूपे; तथैवोभे भारत दुर्विषह्ये
तथैवोभे स्वर्गजयाय सृष्टे; तथा ह्युभे सत्पुरुषार्यगुप्ते
पश्चान्मुखाः कुरवो धार्तराष्ट्राः; स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः
दैत्येन्द्रसेनेव च कौरवाणां; देवेन्द्रसेनेव च पाण्डवानाम्
शुक्रो वायुः पृष्ठतः पाण्डवानां; धार्तराष्ट्राञ्श्वापदा व्याभषन्त
गजेन्द्राणां मदगन्धांश्च तीव्रा;न्न सेहिरे तव पुत्रस्य नागाः
दुर्योधनो हस्तिनं पद्मवर्णं; सुवर्णकक्ष्यं जातिबलं प्रभिन्नम्
समास्थितो मध्यगतः कुरूणां; संस्तूयमानो बन्दिभिर्मागधैश्च
चन्द्रप्रभं श्वेतमस्यातपत्रं; सौवर्णी स्रग्भ्राजते चोत्तमाङ्गे
तं सर्वतः शकुनिः पार्वतीयैः; सार्धं गान्धारैः पाति गान्धारराजः
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः; श्वेतच्छत्रः श्वेतधनुः सशङ्खः
श्वेतोष्णीषः पाण्डुरेण ध्वजेन; श्वेतैरश्वैः श्वेतशैलप्रकाशः
तस्य सैन्यं धार्तराष्ट्राश्च सर्वे; बाह्लीकानामेकदेशः शलश्च
ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ; तथा सौवीराः पञ्चनदाश्च शूराः
शोणैर्हयै रुक्मरथो महात्मा; द्रोणो महाबाहुरदीनसत्त्वः
आस्ते गुरुः प्रयशाः सर्वराज्ञां; पश्चाच्चमूमिन्द्र इवाभिरक्षन्
वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रो जयश्च
शाल्वा मत्स्याः केकयाश्चापि सर्वे; गजानीकैर्भ्रातरो योत्स्यमानाः
शारद्वतश्चोत्तरधूर्महात्मा; महेष्वासो गौतमश्चित्रयोधी
शकैः किरातैर्यवनैः पह्लवैश्च; सार्धं चमूमुत्तरतोऽभिपाति
महारथैरन्धकवृष्णिभोजैः; सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः
बृहद्बलः कृतवर्माभिगुप्तो; बलं त्वदीयं दक्षिणतोऽभिपाति
संशप्तकानामयुतं रथानां; मृत्युर्जयो वार्जुनस्येति सृष्टाः
येनार्जुनस्तेन राजन्कृतास्त्राः; प्रयाता वै ते त्रिगर्ताश्च शूराः
साग्रं शतसहस्रं तु नागानां तव भारत
नागे नागे रथशतं शतं चाश्वा रथे रथे
अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः
एवं व्यूढान्यनीकानि भीष्मेण तव भारत
अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम्
दिवसे दिवसे प्राप्ते भीष्मः शांतनवोऽग्रणीः
महारथौघविपुलः समुद्र इव पर्वणि
भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि
अनन्तरूपा ध्वजिनी त्वदीया; नरेन्द्र भीमा न तु पाण्डवानाम्
तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां; यस्या नेतारौ केशवश्चार्जुनश्च