Mahabharata

Bhishma Parva, Adhyaya 19

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 1

अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः

कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 2

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्

कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 3

धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः

अभ्यभाषत धर्मात्मा धर्मराजो धनंजयम्

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 4

महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः

संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 5

सूचीमुखमनीकं स्यादल्पानां बहुभिः सह

अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 6

एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव

तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुनः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 7

एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम्

अचलं नाम वज्राख्यं विहितं वज्रपाणिना

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 8

यः स वात इवोद्धूतः समरे दुःसहः परैः

स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 9

तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः

अग्रेऽग्रणीर्यास्यति नो युद्धोपायविचक्षणः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 10

यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः

निवर्तिष्यन्ति संभ्रान्ताः सिंहं क्षुद्रमृगा इव

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 11

तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम्

भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 12

न हि सोऽस्ति पुमाँल्लोके यः संक्रुद्धं वृकोदरम्

द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम्

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 13

भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम्

चरन्वेगेन महता समुद्रमपि शोषयेत्

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 14

केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान्

एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 15

धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत्

ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष

अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 16

एवमुक्त्वा महाबाहुस्तथा चक्रे धनंजयः

व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 17

संप्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः

गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 18

भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः

नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान्

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 19

समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः

भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 20

चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती

द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 21

धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः

सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 22

शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः

यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 23

पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 24

राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः

बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 25

अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः

विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 26

तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः

नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 27

समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः

भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम्

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 28

त्वदीयानां परेषां च रथेषु विविधान्ध्वजान्

अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 29

पादातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः

अनेकशतसाहस्रा भीमसेनस्य रक्षिणः

Mahabharata

Bhishma Parva, Adhyaya 19, Verse 30

वारणा दशसाहस्राः प्रभिन्नकरटामुखाः

शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः