Bhishma Parva, Adhyaya 18, Verse 1
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः
अश्रूयत महाराज योधानां प्रयुयुत्सताम्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः
अश्रूयत महाराज योधानां प्रयुयुत्सताम्
शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः
रथानां नेमिघोषैश्च दीर्यतीव वसुंधरा
हयानां हेषमाणानां योधानां तत्र गर्जताम्
क्षणेन खं दिशश्चैव शब्देनापूरितं तदा
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च
समकम्पन्त सैन्यानि परस्परसमागमे
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः
भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः
ध्वजा बहुविधाकारास्तावकानां नराधिप
काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः
स्वेषां चैव परेषां च समदृश्यन्त भारत
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः
संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव
उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः
ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप
दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा
विविंशतिश्चित्रसेनो विकर्णश्च महारथः
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः
रथा विंशतिसाहस्रास्तथैषामनुयायिनः
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः
महता रथवंशेन तेऽभ्यरक्षन्पितामहम्
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्
मागधो येन नृपतिस्तद्रथानीकमन्वयात्
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम्
अभूवन्वाहिनीमध्ये शतानामयुतानि षट्
पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणयः
अनेकशतसाहस्रा नखरप्रासयोधिनः
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत
अदृश्यन्त महाराज गङ्गेव यमुनान्तरे