Mahabharata

Bhishma Parva, Adhyaya 17

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 1

यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत्

तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 2

मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत

दीप्यमानाश्च संपेतुर्दिवि सप्त महाग्रहाः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 3

द्विधाभूत इवादित्य उदये प्रत्यदृश्यत

ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 4

ववाशिरे च दीप्तायां दिशि गोमायुवायसाः

लिप्समानाः शरीराणि मांसशोणितभोजनाः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 5

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः

भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 6

जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौ

युयुधाते तवार्थाय यथा स समयः कृतः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 7

सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव

समानीय महीपालानिदं वचनमब्रवीत्

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 8

इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत्

गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम्

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 9

एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः

संभावयत चात्मानमव्यग्रमनसो युधि

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 10

नाभागो हि ययातिश्च मान्धाता नहुषो नृगः

संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 11

अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे

यदाजौ निधनं याति सोऽस्य धर्मः सनातनः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 12

एवमुक्ता महीपाला भीष्मेण भरतर्षभ

निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 13

स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः

न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 14

अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः

निर्ययुः सिंहनादेन नादयन्तो दिशो दश

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 15

श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः

तान्यनीकान्यशोभन्त रथैरथ पदातिभिः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 16

भेरीपणवशब्दैश्च पटहानां च निस्वनैः

रथनेमिनिनादैश्च बभूवाकुलिता मही

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 17

काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः

भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 18

तालेन महता भीष्मः पञ्चतारेण केतुना

विमलादित्यसंकाशस्तस्थौ कुरुचमूपतिः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 19

ये त्वदीया महेष्वासा राजानो भरतर्षभ

अवर्तन्त यथादेशं राजञ्शांतनवस्य ते

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 20

स तु गोवासनः शैब्यः सहितः सर्वराजभिः

ययौ मातङ्गराजेन राजार्हेण पताकिना

पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 21

अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः

श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 22

शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः

एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः

स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 23

तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान्

भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 24

जाम्बूनदमयी वेदिः कमण्डलुविभूषिता

केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 25

अनेकशतसाहस्रमनीकमनुकर्षतः

महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 26

तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः

क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 27

स्यन्दनेन महार्हेण केतुना वृषभेण च

प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 28

तदङ्गपतिना गुप्तं कृपेण च महात्मना

शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम्

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 29

अनीकप्रमुखे तिष्ठन्वराहेण महायशाः

शुशुभे केतुमुख्येन राजतेन जयद्रथः

Mahabharata

Bhishma Parva, Adhyaya 17, Verse 30

शतं रथसहस्राणां तस्यासन्वशवर्तिनः

अष्टौ नागसहस्राणि सादिनामयुतानि षट्