Bhishma Parva, Adhyaya 16, Verse 1
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि
न तु दुर्योधने दोषमिममासक्तुमर्हसि
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि
न तु दुर्योधने दोषमिममासक्तुमर्हसि
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः
एनसा तेन नान्यं स उपाशङ्कितुमर्हति
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्
स वध्यः सर्वलोकस्य निन्दितानि समाचरन्
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया
अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने
हयानां च गजानां च शूराणां चामितौजसाम्
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः
दिष्टमेतत्पुरा नूनमेवंभावि नराधिप
नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते
यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम्
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च
परचित्तस्य विज्ञानमतीतानागतस्य च
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा
शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम्
भारतानां महद्युद्धं यथाभूल्लोमहर्षणम्
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः
दुर्योधनो महाराज दुःशासनमथाब्रवीत्
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय
अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः
पाण्डवानां ससैन्यानां कुरूणां च समागमः
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात्
हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान्
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम्
श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः
शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः
सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम्
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम्
मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्
गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु
ततो रजन्यां व्युष्टायां शब्दः समभवन्महान्
क्रोशतां भूमिपालानां युज्यतां युज्यतामिति
शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत
हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा
गजानां बृंहतां चैव योधानां चाभिगर्जताम्
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः
सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः
तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः
विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः
रथानीकान्यदृश्यन्त नगराणीव भूरिशः
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत्
धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः
योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः
गजा रथाः पदाताश्च तुरगाश्च विशां पते
व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः
ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः
स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः
अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः