Mahabharata

Bhishma Parva, Adhyaya 15

Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 1

कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना

कथं रथात्स न्यपतत्पिता मे वासवोपमः

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 2

कथमासंश्च मे पुत्रा हीना भीष्मेण संजय

बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 3

तस्मिन्हते महासत्त्वे महेष्वासे महाबले

महारथे नरव्याघ्रे किमु आसीन्मनस्तदा

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 4

आर्तिः परा माविशति यतः शंससि मे हतम्

कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 5

के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः

केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त संजय

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 6

के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम्

रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 7

यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा

सहस्ररश्मिप्रतिमः परेषां भयमादधत्

अकरोद्दुष्करं कर्म रणे कौरवशासनात्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 8

ग्रसमानमनीकानि य एनं पर्यवारयन्

कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके

कथं शांतनवं युद्धे पाण्डवाः प्रत्यवारयन्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 9

निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम्

चापव्यात्ताननं घोरमसिजिह्वं दुरासदम्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 10

अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम्

पातयामास कौन्तेयः कथं तमजितं युधि

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 11

उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे

परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 12

पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे

कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 13

परिकृष्य स सेनां मे दशरात्रमनीकहा

जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 14

यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन्

जघान युधि योधानामर्बुदं दशभिर्दिनैः

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 15

स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः

मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 16

कथं शांतनवं दृष्ट्वा पाण्डवानामनीकिनी

प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 17

कथं भीष्मेण संग्राममकुर्वन्पाण्डुनन्दनाः

कथं च नाजयद्भीष्मो द्रोणे जीवति संजय

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 18

कृपे संनिहिते तत्र भरद्वाजात्मजे तथा

भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 19

कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना

भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 20

यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम्

अजितं जामदग्न्येन शक्रतुल्यपराक्रमम्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 21

तं हतं समरे भीष्मं महारथबलोचितम्

संजयाचक्ष्व मे वीरं येन शर्म न विद्महे

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 22

मामकाः के महेष्वासा नाजहुः संजयाच्युतम्

दुर्योधनसमादिष्टाः के वीराः पर्यवारयन्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 23

यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः

कच्चिन्न कुरवो भीतास्तत्यजुः संजयाच्युतम्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 24

मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान्

धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 25

यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान्

निघ्नन्पररथान्वीरो दानवानिव वज्रभृत्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 26

इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम्

कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम्

गदासिमकरावर्तं हयग्राहं गजाकुलम्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 27

हयान्गजान्पदातांश्च रथांश्च तरसा बहून्

निमज्जयन्तं समरे परवीरापहारिणम्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 28

विदह्यमानं कोपेन तेजसा च परंतपम्

वेलेव मकरावासं के वीराः पर्यवारयन्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 29

भीष्मो यदकरोत्कर्म समरे संजयारिहा

दुर्योधनहितार्थाय के तदास्य पुरोऽभवन्

Mahabharata

Bhishma Parva, Adhyaya 15, Verse 30

केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः

पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः