Mahabharata

Bhishma Parva, Adhyaya 14

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 1

अथ गावल्गणिर्धीमान्समरादेत्य संजयः

प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित्

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 2

ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः

आचष्ट निहतं भीष्मं भरतानाममध्यमम्

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 3

संजयोऽहं महाराज नमस्ते भरतर्षभ

हतो भीष्मः शांतनवो भरतानां पितामहः

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 4

ककुदं सर्वयोधानां धाम सर्वधनुष्मताम्

शरतल्पगतः सोऽद्य शेते कुरुपितामहः

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 5

यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत्

स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 6

यः सर्वान्पृथिवीपालान्समवेतान्महामृधे

जिगायैकरथेनैव काशिपुर्यां महारथः

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 7

जामदग्न्यं रणे राममायोध्य वसुसंभवः

न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 8

महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव

समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 9

शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः

नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 10

पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे

प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 11

परिरक्ष्य स सेनां ते दशरात्रमनीकहा

जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 12

यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः

जघान युधि योधानामर्बुदं दशभिर्दिनैः

Mahabharata

Bhishma Parva, Adhyaya 14, Verse 13

स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः

तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत