Mahabharata

Bhishma Parva, Adhyaya 13

Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 1

उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा

यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 2

घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः

सुरोदः सागरश्चैव तथान्यो घर्मसागरः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 3

परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप

सर्वतश्च महाराज पर्वतैः परिवारिताः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 4

गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान्

पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 5

तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः

प्रजापतिमुपासीनः प्रजानां विदधे सुखम्

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 6

कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह

संपूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 7

क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः

संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 8

गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान्

यत्र नित्यं निवसति श्रीमान्कमललोचनः

मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 9

कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः

सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 10

द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः

चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 11

षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः

तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 12

औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्

तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम्

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 13

धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम्

सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 14

एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर

विहरन्ति रमन्ते च न तेषु म्रियते जनः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 15

न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप

गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 16

अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर

यथाश्रुतं महाराज तदव्यग्रमनाः शृणु

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 17

क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः

क्रौञ्चात्परो वामनको वामनादन्धकारकः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 18

अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः

मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 19

गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः

परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 20

देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु

क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 21

मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह

उष्णात्परः प्रावरकः प्रावरादन्धकारकः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 22

अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः

मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 23

सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप

एते देशा महाराज देवगन्धर्वसेविताः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 24

पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान्

तत्र नित्यं निवसति स्वयं देवः प्रजापतिः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 25

तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः

वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 26

जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत

द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 27

विप्राणां ब्रह्मचर्येण सत्येन च दमेन च

आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 28

एको जनपदो राजन्द्वीपेष्वेतेषु भारत

उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 29

ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः

द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा

Mahabharata

Bhishma Parva, Adhyaya 13, Verse 30

स राजा स शिवो राजन्स पिता स पितामहः

गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः