Mahabharata

Bhishma Parva, Adhyaya 12

Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 1

जम्बूखण्डस्त्वया प्रोक्तो यथावदिह संजय

विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 2

समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन

शाकद्वीपं च मे ब्रूहि कुशद्वीपं च संजय

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 3

शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च

ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 4

राजन्सुबहवो द्वीपा यैरिदं संततं जगत्

सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 5

अष्टादश सहस्राणि योजनानां विशां पते

षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 6

लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः

नानाजनपदाकीर्णो मणिविद्रुमचित्रितः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 7

नैकधातुविचित्रैश्च पर्वतैरुपशोभितः

सिद्धचारणसंकीर्णः सागरः परिमण्डलः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 8

शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव

शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 9

जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप

विष्कम्भेण महाराज सागरोऽपि विभागशः

क्षीरोदो भरतश्रेष्ठ येन संपरिवारितः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 10

तत्र पुण्या जनपदा न तत्र म्रियते जनः

कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 11

शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ

उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 12

शाकद्वीपस्य संक्षेपो यथावदिह संजय

उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 13

तथैव पर्वता राजन्सप्तात्र मणिभूषिताः

रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु

अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 14

देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते

प्रागायतो महाराज मलयो नाम पर्वतः

यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 15

ततः परेण कौरव्य जलधारो महागिरिः

यत्र नित्यमुपादत्ते वासवः परमं जलम्

यतो वर्षं प्रभवति वर्षाकाले जनेश्वर

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 16

उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः

रेवती दिवि नक्षत्रं पितामहकृतो विधिः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 17

उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः

यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 18

सुमहान्संशयो मेऽद्य प्रोक्तं संजय यत्त्वया

प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 19

सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन

गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 20

श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत

आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 21

ततः परं कौरवेन्द्र दुर्गशैलो महोदयः

केसरी केसरयुतो यतो वातः प्रवायति

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 22

तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः

वर्षाणि तेषु कौरव्य संप्रोक्तानि मनीषिभिः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 23

महामेरुर्महाकाशो जलदः कुमुदोत्तरः

जलधारात्परो राजन्सुकुमार इति स्मृतः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 24

रैवतस्य तु कौमारः श्यामस्य तु मणीचकः

केसरस्याथ मोदाकी परेण तु महापुमान्

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 25

परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च

जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 26

शाको नाम महाराज तस्य द्वीपस्य मध्यगः

तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 27

तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च

धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 28

वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते

दीर्घायुषो महाराज जरामृत्युविवर्जिताः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 29

प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः

नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः

Mahabharata

Bhishma Parva, Adhyaya 12, Verse 30

सुकुमारी कुमारी च सीता कावेरका तथा

महानदी च कौरव्य तथा मणिजला नदी

इक्षुवर्धनिका चैव तथा भरतसत्तम