Mahabharata

Bhishma Parva, Adhyaya 11

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 1

भारतस्यास्य वर्षस्य तथा हैमवतस्य च

प्रमाणमायुषः सूत फलं चापि शुभाशुभम्

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 2

अनागतमतिक्रान्तं वर्तमानं च संजय

आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 3

चत्वारि भारते वर्षे युगानि भरतर्षभ

कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 4

पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो

संक्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 5

चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम

आयुःसंख्या कृतयुगे संख्याता राजसत्तम

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 6

तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप

द्विसहस्रं द्वापरे तु शते तिष्ठति संप्रति

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 7

न प्रमाणस्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ

गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 8

महाबला महासत्त्वाः प्रजागुणसमन्विताः

अजायन्त कृते राजन्मुनयः सुतपोधनाः

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 9

महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः

जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 10

आयुष्मन्तो महावीरा धनुर्धरवरा युधि

जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 11

सर्ववर्णा महाराज जायन्ते द्वापरे सति

महोत्साहा महावीर्याः परस्परवधैषिणः

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 12

तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप

लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 13

ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च

पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत

Mahabharata

Bhishma Parva, Adhyaya 11, Verse 14

संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप

गुणोत्तरं हैमवतं हरिवर्षं ततः परम्