Bhishma Parva, Adhyaya 10, Verse 1
यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम्
यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम
Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.
यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम्
यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम
यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः
एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि संजय
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः
अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम्
अत्र ते वर्णयिष्यामि वर्षं भारत भारतम्
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च
पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा
अन्येषां च महाराज क्षत्रियाणां बलीयसाम्
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम्
तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिंदम
शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः
तेषां सहस्रशो राजन्पर्वतास्तु समीपतः
अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो
नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम्
गोदावरीं नर्मदां च बाहुदां च महानदीम्
शतद्रुं चन्द्रभागां च यमुनां च महानदीम्
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम्
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम्
इरावतीं वितस्तां च पयोष्णीं देविकामपि
वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम्
करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम्
गोमतीं धूतपापां च वन्दनां च महानदीम्
कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम्
रथस्थां शतकुम्भां च सरयूं च नरेश्वर
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा
शतावरीं पयोष्णीं च परां भैमरथीं तथा
कावेरीं चुलुकां चापि वापीं शतबलामपि
निचीरां महितां चापि सुप्रयोगां नराधिप
पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम्
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा
पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम्
पारिषेणामसिक्नीं च सरलां भारमर्दिनीम्
पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा
धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव
सदानीरामधृष्यां च कुशधारां महानदीम्
शशिकान्तां शिवां चैव तथा वीरवतीमपि
वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम्
हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम्
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम्
उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम्
वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम्
विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि
शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम्
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम्
कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम्
दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम्
चरक्षां महिरोहीं च तथा जम्बुनदीमपि
सुनसां तमसां दासीं त्रसामन्यां वराणसीम्
लोलोद्धृतकरां चैव पूर्णाशां च महानदीम्