Mahabharata

Bhishma Parva, Adhyaya 8

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 1

मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय

निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम्

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 2

दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे

उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 3

तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः

पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 4

सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप

अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 5

ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम्

वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 6

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका

सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 7

देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः

तुल्यरूपगुणोपेताः समेषु विषमेषु च

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 8

मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः

तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम्

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 9

मिथुनं जायमानं वै समं तच्च प्रवर्धते

तुल्यरूपगुणोपेतं समवेषं तथैव च

एकैकमनुरक्तं च चक्रवाकसमं विभो

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 10

निरामया वीतशोका नित्यं मुदितमानसाः

दश वर्षसहस्राणि दश वर्षशतानि च

जीवन्ति ते महाराज न चान्योन्यं जहत्युत

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 11

भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः

ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 12

उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः

मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम्

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 13

तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते

भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 14

कालाम्रश्च महाराज नित्यपुष्पफलः शुभः

द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 15

तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः

स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 16

चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः

चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 17

दश वर्षसहस्राणि तत्रायुर्भरतर्षभ

कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 18

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु

सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 19

सर्वकामफलः पुण्यः सिद्धचारणसेवितः

तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 20

योजनानां सहस्रं च शतं च भरतर्षभ

उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 21

अरत्नीनां सहस्रं च शतानि दश पञ्च च

परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम्

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 22

पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम्

मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम्

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 23

तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप

मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून्

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 24

पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप

तस्मिन्फलरसे पीते न जरा बाधते च तान्

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 25

तत्र जाम्बूनदं नाम कनकं देवभूषणम्

तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 26

तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट्

नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 27

तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका

योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 28

महारजतसंकाशा जायन्ते तत्र मानवाः

ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 29

तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः

रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम्

Mahabharata

Bhishma Parva, Adhyaya 8, Verse 30

षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च

अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्