Bhishma Parva, Adhyaya 6, Verse 1
नदीनां पर्वतानां च नामधेयानि संजय
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
नदीनां पर्वतानां च नामधेयानि संजय
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः
प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः
निखिलेन समाचक्ष्व काननानि च संजय
पञ्चेमानि महाराज महाभूतानि संग्रहात्
जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः
भूमिरापस्तथा वायुरग्निराकाशमेव च
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः
शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु
वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा
यदा तु विषमीभावमाविशन्ति परस्परम्
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा
आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः
सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम्
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम्
सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः
नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा
वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान्
लावणेन समुद्रेण समन्तात्परिवारितः
यथा च पुरुषः पश्येदादर्शे मुखमात्मनः
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले
द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान्
सर्वौषधिसमावापैः सर्वतः परिबृंहितः
आपस्ततोऽन्या विज्ञेया एष संक्षेप उच्यते