Bhishma Parva, Adhyaya 5, Verse 1
एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत
स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः
संजयं संशितात्मानमपृच्छद्भरतर्षभ
संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरपि
पार्थिवाः पृथिवीहेतोः समभित्यक्तजीविताः
न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम्
भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम्
मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व संजय
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले
देशानां च परीमाणं नगराणां च संजय
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः
दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा
प्रसादात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः
यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान्
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ
द्विविधानीह भूतानि त्रसानि स्थावराणि च
त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः
त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः
जरायुजानां प्रवरा मानवाः पशवश्च ये
नानारूपाणि बिभ्राणास्तेषां भेदाश्चतुर्दश
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः
सिंहव्याघ्रवराहाश्च महिषा वारणास्तथा
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप
गौरजो मनुजो मेषो वाज्यश्वतरगर्दभाः
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः
ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम्
सर्वेषामेव भूतानामन्योन्येनाभिजीवनम्
उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः
एषां विंशतिरेकोना महाभूतेषु पञ्चसु
चतुर्विंशतिरुद्दिष्टा गायत्री लोकसंमता
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम्
तत्त्वेन भरतश्रेष्ठ स लोकान्न प्रणश्यति
भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति
भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम्
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम्
तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम्