Mahabharata

Bhishma Parva, Adhyaya 2

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 1

ततः पूर्वापरे संध्ये समीक्ष्य भगवानृषिः

सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 2

भविष्यति रणे घोरे भरतानां पितामहः

प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित्

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 3

वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम्

शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 4

राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः

ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम्

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 5

तेषु कालपरीतेषु विनश्यत्सु च भारत

कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 6

यदि त्विच्छसि संग्रामे द्रष्टुमेनं विशां पते

चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 7

न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम

युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 8

तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति

वराणामीश्वरो दाता संजयाय वरं ददौ

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 9

एष ते संजयो राजन्युद्धमेतद्वदिष्यति

एतस्य सर्वं संग्रामे नपरोक्षं भविष्यति

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 10

चक्षुषा संजयो राजन्दिव्येनैष समन्वितः

कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 11

प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा

मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 12

नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः

गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 13

अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ

पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 14

दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि

न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 15

एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः

पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 16

इह युद्धे महाराज भविष्यति महान्क्षयः

यथेमानि निमित्तानि भयायाद्योपलक्षये

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 17

श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः

संपतन्ति वनान्तेषु समवायांश्च कुर्वते

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 18

अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः

क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम्

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 19

खटाखटेति वाशन्तो भैरवं भयवेदिनः

कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम्

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 20

उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत

उदयास्तमने सूर्यं कबन्धैः परिवारितम्

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 21

श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः

त्रिवर्णाः परिघाः संधौ भानुमावारयन्त्युत

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 22

ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम्

अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 23

अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम्

चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 24

स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः

राजानो राजपुत्राश्च शूराः परिघबाहवः

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 25

अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः

प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 26

देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च

वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 27

अनाहता दुन्दुभयः प्रणदन्ति विशां पते

अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 28

कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा

सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 29

गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः

अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः

Mahabharata

Bhishma Parva, Adhyaya 2, Verse 30

उभे संध्ये प्रकाशेते दिशां दाहसमन्विते

आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत