Bhishma Parva, Adhyaya 1, Verse 1
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः
पार्थिवाश्च महाभागा नानादेशसमागताः
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः
पार्थिवाश्च महाभागा नानादेशसमागताः
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः
कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते
अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः
वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः
आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम्
प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः
समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता
निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता
यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम्
तावदेव समावृत्तं बलं पार्थिवसत्तम
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम्
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ
आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम्
संज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत
अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च
योजयामास कौरव्यो युद्धकाल उपस्थिते
दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान्
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम्
दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः
दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान्
ततो योधान्हर्षयन्तौ वासुदेवधनंजयौ
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ
पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः
श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः
त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा
उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः
ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान्
व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत्
वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः
विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः
उभे सेने तदा राजन्युद्धाय मुदिते भृशम्
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे
तयोस्तु सेनयोरासीदद्भुतः स समागमः
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव
शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता
तेन सेनासमूहेन समानीतेन कौरवैः
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः
धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ
निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम्
यथापुरं यथायोगं न च स्याच्छलनं पुनः
वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम्
निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथंचन
रथी च रथिना योध्यो गजेन गजधूर्गतः
अश्वेनाश्वी पदातिश्च पदातेनैव भारत
यथायोगं यथावीर्यं यथोत्साहं यथावयः
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले