Mahabharata

Udyoga Parva, Adhyaya 197

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 1

तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः

धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 2

चेदिकाशिकरूषाणां नेतारं दृढविक्रमम्

सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत्

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 3

विराटं द्रुपदं चैव युयुधानं शिखण्डिनम्

पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 4

ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः

आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः

अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 5

सोऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः

दिदेश तान्यनीकानि प्रयाणाय महीपतिः

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 6

अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः

धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 7

भीमं च युयुधानं च पाण्डवं च धनंजयम्

द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 8

भाण्डं समारोपयतां चरतां संप्रधावताम्

हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत्

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 9

स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः

तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 10

भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता

गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 11

ततः पुनरनीकानि व्ययोजयत बुद्धिमान्

मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम्

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 12

द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः

नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान्

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 13

दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः

अयुतं च पदातीनां रथाः पञ्चशतास्तथा

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 14

भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद्बलम्

मध्यमे तु विराटं च जयत्सेनं च मागधम्

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 15

महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ

वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ

अन्वयातां ततो मध्ये वासुदेवधनंजयौ

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 16

बभूवुरतिसंरब्धाः कृतप्रहरणा नराः

तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 17

पञ्च नागसहस्राणि रथवंशाश्च सर्वशः

पदातयश्च ये शूराः कार्मुकासिगदाधराः

सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 18

युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे

तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 19

तत्र नागसहस्राणि हयानामयुतानि च

तथा रथसहस्राणि पदातीनां च भारत

यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम्

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 20

ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः

नदन्तः प्रययुस्तेषामनीकानि सहस्रशः

Mahabharata

Udyoga Parva, Adhyaya 197, Verse 21

तत्र भेरीसहस्राणि शङ्खानामयुतानि च

वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः