Mahabharata

Udyoga Parva, Adhyaya 196

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 1

ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः

दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 2

आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः

गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 3

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः

सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 4

आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः

एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 5

विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह

प्रययुः सर्व एवैते भारद्वाजपुरोगमाः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 6

अश्वत्थामा शांतनवः सैन्धवोऽथ जयद्रथः

दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 7

गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः

शकाः किराता यवनाः शिबयोऽथ वसातयः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 8

स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम्

एते महारथाः सर्वे द्वितीये निर्ययुर्बले

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 9

कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः

दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 10

शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः

एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 11

ते समेन पथा यात्वा योत्स्यमाना महारथाः

कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 12

दुर्योधनस्तु शिबिरं कारयामास भारत

यथैव हास्तिनपुरं द्वितीयं समलंकृतम्

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 13

न विशेषं विजानन्ति पुरस्य शिबिरस्य वा

कुशला अपि राजेन्द्र नरा नगरवासिनः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 14

तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः

कारयामास कौरव्यः शतशोऽथ सहस्रशः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 15

पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम्

सेनानिवेशास्ते राजन्नाविशञ्शतसंघशः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 16

तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्

विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 17

तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्

व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम्

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 18

सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः

ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः

Mahabharata

Udyoga Parva, Adhyaya 196, Verse 19

वणिजो गणिका वारा ये चैव प्रेक्षका जनाः

सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत