Mahabharata

Udyoga Parva, Adhyaya 195

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 1

एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे

आहूय भरतश्रेष्ठ इदं वचनमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 2

धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम

ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम्

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 3

दुर्योधनः किलापृच्छदापगेयं महाव्रतम्

केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 4

मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः

तावता चापि कालेन द्रोणोऽपि प्रत्यजानत

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 5

गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम्

द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित्

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 6

तथा दिव्यास्त्रवित्कर्णः संपृष्टः कुरुसंसदि

पञ्चभिर्दिवसैर्हन्तुं स सैन्यं प्रतिजज्ञिवान्

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 7

तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः

कालेन कियता शत्रून्क्षपयेरिति संयुगे

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 8

एवमुक्तो गुडाकेशः पार्थिवेन धनंजयः

वासुदेवमवेक्ष्येदं वचनं प्रत्यभाषत

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 9

सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः

असंशयं महाराज हन्युरेव बलं तव

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 10

अपैतु ते मनस्तापो यथासत्यं ब्रवीम्यहम्

हन्यामेकरथेनाहं वासुदेवसहायवान्

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 11

सामरानपि लोकांस्त्रीन्सहस्थावरजङ्गमान्

भूतं भव्यं भविष्यच्च निमेषादिति मे मतिः

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 12

यत्तद्घोरं पशुपतिः प्रादादस्त्रं महन्मम

कैराते द्वन्द्वयुद्धे वै तदिदं मयि वर्तते

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 13

यद्युगान्ते पशुपतिः सर्वभूतानि संहरन्

प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 14

तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः

न च द्रोणसुतो राजन्कुत एव तु सूतजः

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 15

न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम्

आर्जवेनैव युद्धेन विजेष्यामो वयं परान्

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 16

तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव

सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 17

वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः

निहन्युः समरे सेनां देवानामपि पाण्डव

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 18

शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः

भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 19

विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि

स्वयं चापि समर्थोऽसि त्रैलोक्योत्सादने अपि

Mahabharata

Udyoga Parva, Adhyaya 195, Verse 20

क्रोधाद्यं पुरुषं पश्येस्त्वं वासवसमद्युते

क्षिप्रं न स भवेद्व्यक्तमिति त्वां वेद्मि कौरव