Mahabharata

Udyoga Parva, Adhyaya 194

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 1

प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव

मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 2

पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुत्तमम्

प्रभूतनरनागाश्वं महारथसमाकुलम्

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 3

भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः

लोकपालोपमैर्गुप्तं धृष्टद्युम्नपुरोगमैः

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 4

अप्रधृष्यमनावार्यमुद्वृत्तमिव सागरम्

सेनासागरमक्षोभ्यमपि देवैर्महाहवे

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 5

केन कालेन गाङ्गेय क्षपयेथा महाद्युते

आचार्यो वा महेष्वासः कृपो वा सुमहाबलः

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 6

कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः

दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 7

एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे

हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 8

अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते

बलाबलममित्राणां स्वेषां च यदि पृच्छसि

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 9

शृणु राजन्मम रणे या शक्तिः परमा भवेत्

अस्त्रवीर्यं रणे यच्च भुजयोश्च महाभुज

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 10

आर्जवेनैव युद्धेन योद्धव्य इतरो जनः

मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 11

हन्यामहं महाबाहो पाण्डवानामनीकिनीम्

दिवसे दिवसे कृत्वा भागं प्रागाह्निकं मम

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 12

योधानां दशसाहस्रं कृत्वा भागं महाद्युते

सहस्रं रथिनामेकमेष भागो मतो मम

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 13

अनेनाहं विधानेन संनद्धः सततोत्थितः

क्षपयेयं महत्सैन्यं कालेनानेन भारत

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 14

यदि त्वस्त्राणि मुञ्चेयं महान्ति समरे स्थितः

शतसाहस्रघातीनि हन्यां मासेन भारत

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 15

श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्तदा

पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम्

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 16

आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान्

निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 17

स्थविरोऽस्मि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः

अस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम्

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 18

यथा भीष्मः शांतनवो मासेनेति मतिर्मम

एषा मे परमा शक्तिरेतन्मे परमं बलम्

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 19

द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत्

द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम्

कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित्

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 20

तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः

जहास सस्वनं हासं वाक्यं चेदमुवाच ह

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 21

न हि तावद्रणे पार्थं बाणखड्गधनुर्धरम्

वासुदेवसमायुक्तं रथेनोद्यन्तमच्युतम्

Mahabharata

Udyoga Parva, Adhyaya 194, Verse 22

समागच्छसि राधेय तेनैवमभिमन्यसे

शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः