Mahabharata

Udyoga Parva, Adhyaya 193

Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 1

शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ

प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः

भवितव्यं तथा तद्धि मम दुःखाय कौरव

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 2

भद्रे कामं करिष्यामि समयं तु निबोध मे

किंचित्कालान्तरं दास्ये पुंलिङ्गं स्वमिदं तव

आगन्तव्यं त्वया काले सत्यमेतद्ब्रवीमि ते

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 3

प्रभुः संकल्पसिद्धोऽस्मि कामरूपी विहंगमः

मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलान्

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 4

स्त्रीलिङ्गं धारयिष्यामि त्वदीयं पार्थिवात्मजे

सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 5

प्रतिदास्यामि भगवँल्लिङ्गं पुनरिदं तव

किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 6

प्रतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि

कन्यैवाहं भविष्यामि पुरुषस्त्वं भविष्यसि

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 7

इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप

अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 8

स्त्रीलिङ्गं धारयामास स्थूणो यक्षो नराधिप

यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 9

ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव

विवेश नगरं हृष्टः पितरं च समासदत्

यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य च

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 10

द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम्

सभार्यस्तच्च सस्मार महेश्वरवचस्तदा

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 11

ततः संप्रेषयामास दशार्णाधिपतेर्नृप

पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 12

अथ दाशार्णको राजा सहसाभ्यागमत्तदा

पाञ्चालराजं द्रुपदं दुःखामर्षसमन्वितः

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 13

ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्तदा

प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम्

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 14

ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम्

यद्वै कन्यां स्वकन्यार्थे वृतवानसि दुर्मते

फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 15

एवमुक्तस्तु तेनासौ ब्राह्मणो राजसत्तम

दूतः प्रयातो नगरं दाशार्णनृपचोदितः

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 16

तत आसादयामास पुरोधा द्रुपदं पुरे

तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम्

प्रापयामास राजेन्द्र सह तेन शिखण्डिना

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 17

तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह

यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 18

यत्तेऽहमधमाचार दुहित्रर्थेऽस्मि वञ्चितः

तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 19

देहि युद्धं नरपते ममाद्य रणमूर्धनि

उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम्

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 20

तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः

दशार्णपतिदूतेन मन्त्रिमध्ये पुरोधसा

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 21

अब्रवीद्भरतश्रेष्ठ द्रुपदः प्रणयानतः

यदाह मां भवान्ब्रह्मन्संबन्धिवचनाद्वचः

तस्योत्तरं प्रतिवचो दूत एव वदिष्यति

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 22

ततः संप्रेषयामास द्रुपदोऽपि महात्मने

हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम्

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 23

समागम्य तु राज्ञा स दशार्णपतिना तदा

तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 24

आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम

मिथ्यैतदुक्तं केनापि तन्न श्रद्धेयमित्युत

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 25

ततः स राजा द्रुपदस्य श्रुत्वा; विमर्शयुक्तो युवतीर्वरिष्ठाः

संप्रेषयामास सुचारुरूपाः; शिखण्डिनं स्त्री पुमान्वेति वेत्तुम्

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 26

ताः प्रेषितास्तत्त्वभावं विदित्वा; प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम्

शिखण्डिनं पुरुषं कौरवेन्द्र; दशार्णराजाय महानुभावम्

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 27

ततः कृत्वा तु राजा स आगमं प्रीतिमानथ

संबन्धिना समागम्य हृष्टो वासमुवास ह

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 28

शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः

हस्तिनोऽश्वांश्च गाश्चैव दास्यो बहुशतास्तथा

पूजितश्च प्रतिययौ निवर्त्य तनयां किल

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 29

विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे

प्रतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी

Mahabharata

Udyoga Parva, Adhyaya 193, Verse 30

कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः

लोकानुयात्रां कुर्वाणः स्थूणस्यागान्निवेशनम्