Udyoga Parva, Adhyaya 192, Verse 1
ततः शिखण्डिनो माता यथातत्त्वं नराधिप
आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम्
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः शिखण्डिनो माता यथातत्त्वं नराधिप
आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम्
अपुत्रया मया राजन्सपत्नीनां भयादिदम्
कन्या शिखण्डिनी जाता पुरुषो वै निवेदितः
त्वया चैव नरश्रेष्ठ तन्मे प्रीत्यानुमोदितम्
पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ
भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता
त्वया च प्रागभिहितं देववाक्यार्थदर्शनात्
कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम्
एतच्छ्रुत्वा द्रुपदो यज्ञसेनः; सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य
मन्त्रं राजा मन्त्रयामास राज;न्यद्यद्युक्तं रक्षणे वै प्रजानाम्
संबन्धकं चैव समर्थ्य तस्मि;न्दाशार्णके वै नृपतौ नरेन्द्र
स्वयं कृत्वा विप्रलम्भं यथाव;न्मन्त्रैकाग्रो निश्चयं वै जगाम
स्वभावगुप्तं नगरमापत्काले तु भारत
गोपयामास राजेन्द्र सर्वतः समलंकृतम्
आर्तिं च परमां राजा जगाम सह भार्यया
दशार्णपतिना सार्धं विरोधे भरतर्षभ
कथं संबन्धिना सार्धं न मे स्याद्विग्रहो महान्
इति संचिन्त्य मनसा दैवतान्यर्चयत्तदा
तं तु दृष्ट्वा तदा राजन्देवी देवपरं तथा
अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत्
देवानां प्रतिपत्तिश्च सत्या साधुमता सदा
सा तु दुःखार्णवं प्राप्य नः स्यादर्चयतां भृशम्
दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः
अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने
अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभो
देवतानां प्रसादेन सर्वमेतद्भविष्यति
मन्त्रिभिर्मन्त्रितं सार्धं त्वया यत्पृथुलोचन
पुरस्यास्याविनाशाय तच्च राजंस्तथा कुरु
दैवं हि मानुषोपेतं भृशं सिध्यति पार्थिव
परस्परविरोधात्तु नानयोः सिद्धिरस्ति वै
तस्माद्विधाय नगरे विधानं सचिवैः सह
अर्चयस्व यथाकामं दैवतानि विशां पते
एवं संभाषमाणौ तौ दृष्ट्वा शोकपरायणौ
शिखण्डिनी तदा कन्या व्रीडितेव मनस्विनी
ततः सा चिन्तयामास मत्कृते दुःखितावुभौ
इमाविति ततश्चक्रे मतिं प्राणविनाशने
एवं सा निश्चयं कृत्वा भृशं शोकपरायणा
जगाम भवनं त्यक्त्वा गहनं निर्जनं वनम्
यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम्
तद्भयादेव च जनो विसर्जयति तद्वनम्
तत्र स्थूणस्य भवनं सुधामृत्तिकलेपनम्
लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम्
तत्प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप
अनश्नती बहुतिथं शरीरमुपशोषयत्
दर्शयामास तां यक्षः स्थूणो मध्वक्षसंयुतः
किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम्
अशक्यमिति सा यक्षं पुनः पुनरुवाच ह
करिष्यामीति चैनां स प्रत्युवाचाथ गुह्यकः
धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे
अदेयमपि दास्यामि ब्रूहि यत्ते विवक्षितम्
ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत्
तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत
आपन्नो मे पिता यक्ष नचिराद्विनशिष्यति
अभियास्यति संक्रुद्धो दशार्णाधिपतिर्हि तम्
महाबलो महोत्साहः स हेमकवचो नृपः
तस्माद्रक्षस्व मां यक्ष पितरं मातरं च मे
प्रतिज्ञातो हि भवता दुःखप्रतिनयो मम
भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः
यावदेव स राजा वै नोपयाति पुरं मम
तावदेव महायक्ष प्रसादं कुरु गुह्यक