Udyoga Parva, Adhyaya 191, Verse 1
एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप
चोरस्येव गृहीतस्य न प्रावर्तत भारती
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप
चोरस्येव गृहीतस्य न प्रावर्तत भारती
स यत्नमकरोत्तीव्रं संबन्धैरनुसान्त्वनैः
दूतैर्मधुरसंभाषैर्नैतदस्तीति संदिशन्
स राजा भूय एवाथ कृत्वा तत्त्वत आगमम्
कन्येति पाञ्चालसुतां त्वरमाणोऽभिनिर्ययौ
ततः संप्रेषयामास मित्राणाममितौजसाम्
दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा
ततः समुदयं कृत्वा बलानां राजसत्तमः
अभियाने मतिं चक्रे द्रुपदं प्रति भारत
ततः संमन्त्रयामास मित्रैः सह महीपतिः
हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति
तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम्
तथ्यं चेद्भवति ह्येतत्कन्या राजञ्शिखण्डिनी
बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहान्
अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम्
घातयिष्याम नृपतिं द्रुपदं सशिखण्डिनम्
स तदा दूतमाज्ञाय पुनः क्षत्तारमीश्वरः
प्रास्थापयत्पार्षताय हन्मीति त्वां स्थिरो भव
स प्रकृत्या च वै भीरुः किल्बिषी च नराधिपः
भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः
विसृज्य दूतं दाशार्णं द्रुपदः शोककर्शितः
समेत्य भार्यां रहिते वाक्यमाह नराधिपः
भयेन महताविष्टो हृदि शोकेन चाहतः
पाञ्चालराजो दयितां मातरं वै शिखण्डिनः
अभियास्यति मां कोपात्संबन्धी सुमहाबलः
हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम्
किमिदानीं करिष्यामि मूढः कन्यामिमां प्रति
शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः
इति निश्चित्य तत्त्वेन समित्रः सबलानुगः
वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति
किमत्र तथ्यं सुश्रोणि किं मिथ्या ब्रूहि शोभने
श्रुत्वा त्वत्तः शुभे वाक्यं संविधास्याम्यहं तथा
अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी
त्वं च राज्ञि महत्कृच्छ्रं संप्राप्ता वरवर्णिनि
सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः
तथा विदध्यां सुश्रोणि कृत्यस्यास्य शुचिस्मिते
शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः
क्रिययाहं वरारोहे वञ्चितः पुत्रधर्मतः
मया दाशार्णको राजा वञ्चितश्च महीपतिः
तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम्
जानतापि नरेन्द्रेण ख्यापनार्थं परस्य वै
प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम्