Mahabharata

Udyoga Parva, Adhyaya 190

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 1

चकार यत्नं द्रुपदः सर्वस्मिन्स्वजने महत्

ततो लेख्यादिषु तथा शिल्पेषु च परं गता

इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 2

तस्य माता महाराज राजानं वरवर्णिनी

चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 3

ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम्

स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 4

कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी

मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 5

न तन्मिथ्या महाराज्ञि भविष्यति कथंचन

त्रैलोक्यकर्ता कस्माद्धि तन्मृषा कर्तुमर्हति

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 6

यदि ते रोचते राजन्वक्ष्यामि शृणु मे वचः

श्रुत्वेदानीं प्रपद्येथाः स्वकार्यं पृषतात्मज

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 7

क्रियतामस्य नृपते विधिवद्दारसंग्रहः

सत्यं भवति तद्वाक्यमिति मे निश्चिता मतिः

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 8

ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दम्पती

वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम्

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 9

ततो राजा द्रुपदो राजसिंहः; सर्वान्राज्ञः कुलतः संनिशाम्य

दाशार्णकस्य नृपतेस्तनूजां; शिखण्डिने वरयामास दारान्

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 10

हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः

स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 11

स च राजा दशार्णेषु महानासीन्महीपतिः

हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 12

कृते विवाहे तु तदा सा कन्या राजसत्तम

यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 13

कृतदारः शिखण्डी तु काम्पिल्यं पुनरागमत्

न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 14

हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम्

धात्रीणां च सखीनां च व्रीडमाना न्यवेदयत्

कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम्

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 15

ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा

जग्मुरार्तिं परां दुःखात्प्रेषयामासुरेव च

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 16

ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन्

विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 17

शिखण्ड्यपि महाराज पुंवद्राजकुले तदा

विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन्

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 18

ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ

हिरण्यवर्मा राजेन्द्र रोषादार्तिं जगाम ह

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 19

ततो दाशार्णको राजा तीव्रकोपसमन्वितः

दूतं प्रस्थापयामास द्रुपदस्य निवेशने

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 20

ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः

एक एकान्तमुत्सार्य रहो वचनमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 21

दशार्णराजो राजंस्त्वामिदं वचनमब्रवीत्

अभिषङ्गात्प्रकुपितो विप्रलब्धस्त्वयानघ

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 22

अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव

यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि

Mahabharata

Udyoga Parva, Adhyaya 190, Verse 23

तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते

एष त्वां सजनामात्यमुद्धरामि स्थिरो भव