Mahabharata

Udyoga Parva, Adhyaya 189

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 1

कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा

पुरुषोऽभवद्युधि श्रेष्ठ तन्मे ब्रूहि पितामह

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 2

भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः

महिषी दयिता ह्यासीदपुत्रा च विशां पते

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 3

एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः

अपत्यार्थं महाराज तोषयामास शंकरम्

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 4

अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः

लेभे कन्यां महादेवात्पुत्रो मे स्यादिति ब्रुवन्

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 5

भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया

इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 6

निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत्

स तु गत्वा च नगरं भार्यामिदमुवाच ह

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 7

कृतो यत्नो मया देवि पुत्रार्थे तपसा महान्

कन्या भूत्वा पुमान्भावी इति चोक्तोऽस्मि शंभुना

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 8

पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः

न तदन्यद्धि भविता भवितव्यं हि तत्तथा

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 9

ततः सा नियता भूत्वा ऋतुकाले मनस्विनी

पत्नी द्रुपदराजस्य द्रुपदं संविवेश ह

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 10

लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना

पार्षतात्सा महीपाल यथा मां नारदोऽब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 11

ततो दधार तं गर्भं देवी राजीवलोचना

तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन

पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत्तदा

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 12

अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः

कन्यां प्रवररूपां तां प्राजायत नराधिप

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 13

अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी

ख्यापयामास राजेन्द्र पुत्रो जातो ममेति वै

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 14

ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप

पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत्

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 15

रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा

चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत

न हि तां वेद नगरे कश्चिदन्यत्र पार्षतात्

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 16

श्रद्दधानो हि तद्वाक्यं देवस्याद्भुततेजसः

छादयामास तां कन्यां पुमानिति च सोऽब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 17

जातकर्माणि सर्वाणि कारयामास पार्थिवः

पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः

Mahabharata

Udyoga Parva, Adhyaya 189, Verse 18

अहमेकस्तु चारेण वचनान्नारदस्य च

ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा