Udyoga Parva, Adhyaya 188, Verse 1
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन्
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः
यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम्
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह
नाहत्वा युधि गाङ्गेयं निवर्तेयं तपोधनाः
एष मे हृदि संकल्पो यदर्थमिदमुद्यतम्
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः
तां देवो दर्शयामास शूलपाणिरुमापतिः
मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम्
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम्
वधिष्यसीति तां देवः प्रत्युवाच मनस्विनीम्
ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह
उपपद्येत्कथं देव स्त्रियो मम जयो युधि
स्त्रीभावेन च मे गाढं मनः शान्तमुमापते
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः
यथा स सत्यो भवति तथा कुरु वृषध्वज
यथा हन्यां समागम्य भीष्मं शांतनवं युधि
तामुवाच महादेवः कन्यां किल वृषध्वजः
न मे वागनृतं भद्रे प्राह सत्यं भविष्यति
वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती
द्रुपदस्य कुले जाता भविष्यसि महारथः
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात्
एवमुक्त्वा महातेजाः कपर्दी वृषभध्वजः
पश्यतामेव विप्राणां तत्रैवान्तरधीयत
ततः सा पश्यतां तेषां महर्षीणामनिन्दिता
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम्
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम्
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम्