Udyoga Parva, Adhyaya 187, Verse 1
प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि
यथा मया परं शक्त्या कृतं वै पौरुषं महत्
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि
यथा मया परं शक्त्या कृतं वै पौरुषं महत्
न चैव युधि शक्नोमि भीष्मं शस्त्रभृतां वरम्
विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन्
एषा मे परमा शक्तिरेतन्मे परमं बलम्
यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते
भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः
निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता
एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः
तूष्णीमासीत्तदा कन्या प्रोवाच भृगुनन्दनम्
भगवन्नेवमेवैतद्यथाह भगवांस्तथा
अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः
यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया
अनिधाय रणे वीर्यमस्त्राणि विविधानि च
न चैष शक्यते युद्धे विशेषयितुमन्ततः
न चाहमेनं यास्यामि पुनर्भीष्मं कथंचन
गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन
समरे पातयिष्यामि स्वयमेव भृगूद्वह
एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना
तपसे धृतसंकल्पा मम चिन्तयती वधम्
ततो महेन्द्रं सह तैर्मुनिभिर्भृगुसत्तमः
यथागतं ययौ रामो मामुपामन्त्र्य भारत
ततोऽहं रथमारुह्य स्तूयमानो द्विजातिभिः
प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम्
यथावृत्तं महाराज सा च मां प्रत्यनन्दत
पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि
दिवसे दिवसे ह्यस्या गतजल्पितचेष्टितम्
प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते मम
यदैव हि वनं प्रायात्कन्या सा तपसे धृता
तदैव व्यथितो दीनो गतचेता इवाभवम्
न हि मां क्षत्रियः कश्चिद्वीर्येण विजयेद्युधि
ऋते ब्रह्मविदस्तात तपसा संशितव्रतात्
अपि चैतन्मया राजन्नारदेऽपि निवेदितम्
व्यासे चैव भयात्कार्यं तौ चोभौ मामवोचताम्
न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्
सा तु कन्या महाराज प्रविश्याश्रममण्डलम्
यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम्
निराहारा कृशा रूक्षा जटिला मलपङ्किनी
षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना
यमुनातीरमासाद्य संवत्सरमथापरम्
उदवासं निराहारा पारयामास भामिनी
शीर्णपर्णेन चैकेन पारयामास चापरम्
संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता
एवं द्वादश वर्षाणि तापयामास रोदसी
निवर्त्यमानापि तु सा ज्ञातिभिर्नैव शक्यते
ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम्
आश्रमं पुण्यशीलानां तापसानां महात्मनाम्
तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम्
व्यचरत्काशिकन्या सा यथाकामविचारिणी
नन्दाश्रमे महाराज ततोलूकाश्रमे शुभे
च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च
प्रयागे देवयजने देवारण्येषु चैव ह
भोगवत्यां तथा राजन्कौशिकस्याश्रमे तथा
माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा
रामह्रदे च कौरव्य पैलगार्ग्यस्य चाश्रमे
एतेषु तीर्थेषु तदा काशिकन्या विशां पते
आप्लावयत गात्राणि तीव्रमास्थाय वै तपः
तामब्रवीत्कौरवेय मम माता जलोत्थिता
किमर्थं क्लिश्यसे भद्रे तथ्यमेतद्ब्रवीहि मे
सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता
भीष्मो रामेण समरे न जितश्चारुलोचने